OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, November 5, 2015


राष्ट्रान्तरीयचलच्चित्रोत्सवस्य उद्धाटनाय संस्कृतचित्रम् ।

नवदिल्ली राज्यस्तरीयपुरस्कारनिर्णयवेलायां केरलचलच्चित्रअकाडम्या निरस्तं संस्कृतचलच्चित्रं गोवायां सञ्चााल्य माने रष्ट्रान्तरीयचलच्चित्रोत्सवे भारतीयपनोरमाविभागे उद्घाटनत्वेन स्वीकृतमस्ति।भारतचलच्चित्रचरित्रे तृतीयं संस्कृतचित्रं "प्रियमानसं" एतादृशम् अपूर्वसौभाग्यमर्हदस्ति। 
 विख्यातसंविधायकेन विनोद् मङ्करा वर्येण संविधानं कृतं प्रियमानसं विश्रुतमलयालकवेः उण्णायिवार्यर् वर्यस्य आत्मसंघर्षाणां दृश्याविष्कारः भवति।प्रशस्तः अभिनेता राजेष् हेब्बारः उण्णायिवार्यर् महाभागम् अवतारयति। सोमा क्रियेषन्स् इत्यस्य नेतृत्वे बेबीमात्यू सोमतीरेण इदं चित्रं निर्मितम्। तिरुवनन्तपुरं चलच्चित्रोत्सवे प्रियमानसेन अनुभूता अवगणना विवादाय कारणमभवत्।

केरलेषु अन्तिमपादनिर्वाचनम्  अद्य


अनन्तपुरी- केरलेषु त्रितलतद्देशनिर्वाचनस्य द्वितीयम् अन्तिमं च निर्वाचनं सप्तजनपदेषु अद्य प्रवर्तते।पत्तनंतिट्टा, आलप्पुषा, कोट्टयं , एरनाकुलम, तृश्शूर्, पालक्काट्, मलप्पुरम् इत्येतेषु जनपदेषु प्रातः सप्तवादनादारभ्य मतदानप्रक्रिया आरभते।
 संवत्सराभ्यन्तरे प्रचाल्यमानस्य नियमसभानिर्वाचनस्य निकषरूपेण कल्प्यमाने अस्मिन् निर्वाचने शासकपक्षेन यू डि एफ् दलेन विपक्षेन एल् डि एफ् दलेन च साकं भा ज पा अपि स्वशक्तिं परीक्षते।मतगणना फलप्रख्यापनं च सप्तमदिनाङ्के भविष्यति।


राष्ट्रपतेः वधश्रम: मालिद्वीपे आपात काल जाग्रता  उद्घुष्टा।

मालि  : राष्ट्रपतिं विरुध्य जातम् वधश्रमम् अनुसृत्य मालिद्वीपे  आपातकाल: उद्‌घुष्टः । देशीयसुरक्षाम् अभिलक्ष्य एव आपातः उद्‌घुष्टः इति विदेशकार्यमन्त्रालयेन सूचितम् । त्रिंशत्दिनपर्यन्तमेव आपात:  I सप्तम्बर् अष्टाविंशतौ एव यामीनस्य नौकायां स्फोटनं जातम् । अस्यां दुर्घटनायां यामीनस्य पत्‍नी तथा अन्यौ द्वाै अपि  व्रणितौ आस्ताम् । प्रधानप्रतिपक्षदलस्य मालिद्वीप् डेमोक्राटिक् पार्टी (एम् . डि .पि .)नेतुः मुहम्मद् नषीदस्य ग्रहणानन्तरघटनाः एव द्वीपराष्ट्रं आपातं प्रति नीताः । प्रतिपक्षनेतुः कारावासं विरुध्य अन्ताराष्ट्रियतले प्रतिषेध: आसीत् । राष्ट्रपतिं अब्दुल्ल यामीनं विरुध्य प्रकटने करिष्यमाणे एव आपातकालस्य उद्घोषणम् ।