OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, November 3, 2015

 
'चपला' येमन् देशे मरणत्रयम्।
ओमाने  भारतीयाः रिक्तीकृताः।

 येमने सोकोत्र द्वीपे आगतस्य चपला इति झञ्झावातस्य औपग्रहिकं चित्रम् । 

सना - येमने सोकोत्रद्वीपे जाते चपला इति झञ्झावाते त्रयः मृताः I उपशतम् मृताः त। अतिवृष्ट्या जलोपप्लवनेन च १५ ०० कुटुम्बानि तीरप्रदेशात् रिक्तीकृताः । विद्यालयेभ्यः विरामः उद्घुष्टः। मलयालिजनपूर्ण: सलाल अतीव सुरक्षायां भवति । तीरप्रदेशा: च पिहिता:। दोफोर्, तखा, राय्सत्, मिर्बाद, औखाद्‌, अल् साद, तुम्रैत् इत्यादि प्रदेशेषु जाग्रता निर्देश: दत्तः। सर्वत्र शक्ता वृष्टि: भविष्यतीति सूचना । तदभ्यन्तरे येमनं प्रति चपलायाः दिशा परिवर्तिता चेदपि कमपि सन्दर्भं सम्मुखीकर्तुं ओमानतीरेषु अतीव सुरक्षा व्यवस्थाः कृताः। दोफोरे भारतीयान् अपि मेलयित्वा ४५००  जनान् १२ सुरक्षितस्थानेषु  परिवर्तिताः इति माध्यमकेन्द्राणि सूचयन्ति ।


कल्बुर्गिवर्याय आर् एस् एस् -स्य आदराञ्जलिः।

राञ्ची - हिन्दुत्ववादिभिः निहताय कन्नटसाहित्यकाराय एम् एम् कल्बुर्गीवर्याय राष्ट्रीय स्वयंसेवक संधस्य आदराञ्जलिः। झार्खण्डराज्ये राञ्चीजनपदे प्रवृत्ते संधस्य अखिल भारतीय कार्यकारिमण्डले एव कल्बुर्गीप्रभृतयः माकिं ८० जनाः अनुस्मृताः। राष्ट्रे विद्यमानाम् असहिष्णुतां विरुद्ध्य साहित्यकाराः चलनचित्रकाराः चरित्रकाराश्च पुरस्कारतिरस्काररूपान् प्रतिषेधकार्यक्रमान् आरब्धवन्तः आसन्।



 टेरि फेलानः ब्लास्टेस् क्रीडाशिक्षकः।

कोषिक्कोट् - केरला ब्लास्टेस् इत्यस्य पादकन्दुकक्रीडादलस्य मुख्यपरिशीलकस्थाने अयर्लान्ट् देशीयः टेरि फेलन् नामकः नियुक्तः। इदानीं सः दलस्य आधारमूलोद्भावकः ( ग्रास् रूट् ) साङ्केतिकनिर्वाहकः अस्ति।
दलस्य दयनीयं प्रदर्शनं हेतुतः इंग्लन्टदेशीयः पीटर् टेय्लरः मुख्यशिक्षकस्थानं त्यक्तवानासीत्।

 सुवचनम् 
 धर्मो मित्रं मृतस्य ।