OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, November 18, 2015

 पाकिस्ताने ७३ संवत्सरेभ्यः परं सिख् आराधनालयः उद्घाटितः।


पेषवार् - उत्तरपाकिस्ताने पेषवार् प्रविश्यायां ७३ वर्षेभ्यः पूर्वं बन्धितः सिख् धर्मीनुयायिनाम् आराधनालयः (गुरुद्वारा) विश्वासिनां कृते पुनरपि उद्घाटितः।प्रदेशवासिनः प्रादेशिकशासनञ्च धर्माधिकारिभिः सह कृतं सन्ध्यनुसारं गतदिने एव उद्घाटनम्। अत्र अनुष्ठीयमानं पर्दासम्प्रदायं (स्त्रीणाम् एकान्तवासः) प्रति प्रदेशवासिनां विरोधः १९४२ तमे वर्षे देवालयबन्धनस्य कारणमभवत्।


 शबरिगिरिविशेषाः।

भक्तान् स्वीकर्तुं विपुलानि सज्जीकरणानि पम्पायां सन्निधाने च अधिकृतैः स्वीकृतानि।३६ लक्षं त्रपूंषि(Tin) 'अरवणा' (गुडपायसं)  २.५लक्षं बन्धकाः(Packet) अपूपाः च पूर्वमेव संभृताः। शुचीकरणप्रवर्तनाय अमृतानन्दमयीमठात् अय्यप्पसेवासंघाच्च सन्नद्धसेवार्थिनः समागता: वर्तन्ते। निलय्कल् पन्पा सन्निधानम् इत्येतेषु स्थानेषु अहोरात्रम् अन्नदानस्य व्यवस्थापि तिरुवितांकूर देवस्वं नाम निर्वााहकसंस्थया कृता अस्ति।