OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, November 12, 2015

अनुज्ञा २४७ कोटिरूप्यकाणां ; व्ययः केवलं १४२ कोटिः।

नवदिल्ली - ६ पङ्क्तियुक्तम् उपरितरणपथं(Flyover) निर्मातुं २४७ कोटिरूप्यकाणाम् अनुज्ञा दीयते, १४२
कोटिरूप्यकैः पद्धतेः पूर्तीकरणं सम्भवति ! भ्रष्टाचारसम्पन्ने अस्मिन् राष्ट्रे भ्रष्टाचारविरुद्धमुद्रावाक्यैः सन्देशैश्च अघिकारं प्राप्तवता दिल्लीमुख्यमन्त्रिणा अरविन्द केज्रिवाल् महोदयेन इयं मान्त्रिकप्रक्रिया सञ्चालिता।
२०१३ तमे वर्षे षीलादीक्षित् सर्वकारेण उत्तरदिल्याम् आसाद्पुर- प्रेमबारीप्रदेशयोः मध्ये १.६ कि.मी. दैर्घ्येन उपरितरणमार्गनिर्माणाय २४७ कोटिरूप्यकाणाम् अनुमतिः दत्ता निर्माणमारभत च। किन्तु केज्रिवाल् वर्यस्य अधिकारप्राप्त्यनन्तरं केवलं १४२ कोटिरूप्यकाणां व्ययेन वीथीनिर्माणं पूर्तीकृत्य गतदिने उद्घाटनमपि कृतम्।


बीहार् - नितीष् कुमारस्य स्थानारोहणं २० तमे।

पाट्ना - बीहारराज्यस्य मुख्यमन्त्रिरूपेण नितीष् कुमार् वर्यस्य स्थनारोहणं नवं- २० तमे दिनाङ्के भविष्यति। पाट्नायां
गान्धीमैतान् मध्ये एव सत्यप्रतिज्ञाक्रियाः आयोजयिष्यन्ते। जे डि यू दलात् १५, आर् जे डी तः१६, कोण्ग्रस् दलात् ६ च सामाजिकाः सचिवपदे भविष्यन्ति।


 
  गोयङ्क एक्सलनस् वार्तामाध्यमपुरस्कारेण बिजु परवत्तः सम्मानितः।

नवदिल्ली - रांनाथ् गोयङ्क एक्स्लन्स् ओफ्‌ जेर्णलिसम् पुरस्कारः मलयालभाषायाः प्रमुखपत्रिका मातृभूमेः वार्ताहराय बिजु परवत्त महोदयाय अलभत। राज्यस्तरीय भाषाया: उत्तमवार्ताहराय प्रख्यापितः अयं पुरस्कारः २०१२-१३ वर्षस्य एव। भारत-पत्र-माध्यम-मण्डल्स्य कुलपति इति विख्यातः इन्ड्यन् एक्‌स्प्रस् पत्रिकायाः स्थापकः राम् नाथ गोयङस्य नाम्नि  संस्थापितः अयं पुरस्कारः। गोयङ्क फौण्डेषन् संस्थया पुरस्कारः यच्छति। लक्षं रुप्यकाणि प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवति ।  2013 अगस्त मासस्य26 तः29 पर्यन्तं मातृभूमिपत्रिकायां प्रकाशितः "नीतिम् अलभमानाम् आदिवासिजीवनम्" इति परम्परायाः कृते एव पुरस्कारः। वि.के माधवन् कुट्टि पुरस्कारेण कालिकट्ट्  प्रस्क्लब् पुरस्कारेण ई. एम्‌ .एस् पठन-गवेषण-केन्द्र-पुरस्कारेण च एषः महोदय: पूर्वं पुरस्कृत: आसीत्।


विदेशचार्टर्विमानसेवनानि इतःपरं भारतात् अपि आरब्धुं शक्यते।
 
नवदेहली - व्योमयानमण्डले विदेशनिक्षेपे उदारीकृते विदेशचार्टर्विमानसेवनानि भारतात् आरब्धुं साध्यता जाता । अस्मिन् मण्डले अधुना चतुस्सप्ततिप्रतिशतम् एव विदेशनिक्षेपाय अनुमति: विद्यते। तत् इतःपरं शतप्रतिशतं कर्तुमेव निश्चयः। नूतनव्योमयाननये आगते वाणिज्यविनोदसञ्चारमण्डलानामपि गुणकरं भविष्यति ।

ISRO संस्थायाः जी साट्15 उपग्रहस्य
विक्षेपणे विजयः
कालीफ़ोर्णिया-  ISRO संस्थायाः जीसाट्15 नाम नूतन उपग्रहस्य विक्षेपणे भारतं विजयीभूतम् । दक्षिण अमेरिक्कायाः फ़्रञ्च् गयानायाः कौरु देशतः विक्षिप्तः विक्षेपणपेटकेन  जीसाट्ट्15 भू भ्रमणपथे न्यक्षिपत् 

 11 घण्डापर्यन्तं अनुवर्तमानः नीच गणनानन्तरं पूर्वनिश्चयानुसारेण आकाशं प्रति उत्पतितः।  43 मिनिट्  24 निमेषानन्तरं स्वस्य स्थानं प्राप्य नियन्त्रकानां कृते सन्देश: प्रेषितः। इदानीम् आरभ्य हासन् तः भवति उपग्रहस्य नियन्त्रणम् ।