OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 23, 2015

भारते सर्वेभ्यः तुल्यः अधिकारः नीतिश्च इति मोदिवर्य:।

क्वालालम्पूर् - भारतम् किञ्चन युवकानां राष्ट्रं भवति, अत्र सर्वेभ्यः तुल्यः अधिकारः नीतिश्च इति प्रधानमन्त्री नरेन्द्रमोदिवर्य:। सर्वकार-जनयो: मध्ये व्यवहारे परिवर्तनम् आगच्छति। सर्वकारीय व्यवहारान् अतीव ललितं कर्तुं प्रयत्नः प्रचलति। नानात्वात् शक्तिं स्वीकृत्य भारतं सर्वथा एकतायां बद्धं भवति। आसियन उच्चकोटिसम्मेलने भागं स्वीकृत्य भारतसमाजम् सम्बुध्य भाषमाणः आसीत् सः। विश्वे महती आर्थिकी शक्ति: भविष्यति भारतम्। विश्वे निपुणानाम् ऐ. टि. विभागज्ञानाम् उत्पत्तिः अधिकतया भारतात्  एव संभवति । भारतीयानि उत्पन्नानि लोक विपण्यां आगच्छन्ति सन्ति। एवं उत्तम कार्याणि आधिकानि जायमानानि सन्ति। भारतस्य बृहत्तमः वाणिज्यसहकारी भवति मलेष्या। सः सम्बन्धः सर्वदा वर्धनीयः। मलेष्यायाः विकसने तमिल् जनानां सम्भावना आपि महत्तमा इति मोदिवर्येण उक्तम्।


॥ सुवचनानि ॥
परोपकारार्थमिदं शरीरम् ।
परोपकारः पुण्याय ।
परोपकाराय सतां विभूतयः ।