OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, December 15, 2016

दिव्याङ्गानां सार्वत्रिक-परिचयपत्रम् – प्रधानमन्त्री
नवदिल्ली> भारतेदेशे २.७ कोटिजना: दिव्याङ्गजना: सन्ति। दिव्याङ्गेभ्यः सर्वेभ्यः विविधानि प्रयोजनानि प्राप्तुं ऐदम्प्राथम्येन  सार्वत्रिक परिचयपत्रं दातुं सर्वकारेण निर्णय: स्वीकृत:। आगामि जनवरि मासे प्रधानमन्त्रिणा नरेन्द्रमोदिना अयं कार्यक्रम: प्रारप्स्यते। परिचय पत्रे अस्मिन् अष्टादश सङ्ख्या: भवन्ति। सङ्ख्यायां जन्मदिनाङ्क:, राज्य:, जनपद:, वैकल्याङ्गानुसारेण सङ्केत-सङ्ख्या च अन्तर्भवन्ति । प्रतिशतं चत्वारिंशत् संख्यातः (४०%) न्यूनं वैकल्यं भवति चेत् श्वेतवर्णपत्रं, चत्वारिंशत् संख्यातः अघिकं वैकल्यं भवति चेत् पीतवर्णपत्रं,  अशीत्यधिकं (८०%) भवति चेत् धूम्रवर्णपत्रं च यच्छति । आधार-पत्रस्य आधारेण एव इमानि पत्राणि यच्छन्ति।

 संस्कृत-भाषायाः रक्षाकर्तृत्वं जर्मनी राष्ट्राय भविष्यति।
बेर्लिन्>यद्यपि भारतीयैः त्यक्तं तथापि जर्मन् राष्ट्रे संस्कृतस्य अतीव स्वीकारः। विना विलम्बमेव भाषायाः अस्याःरक्षाकर्तृत्वं जर्मनी राष्ट्रे एव भविष्यतीति भाषाशात्रज्ञानां मतम्। जर्मनी राष्ट्रे चतुर्दश सर्वकारेतर विश्वविद्यालयेषु संस्कृतं पाठयति। पाठ्यक्रमेषु छात्राणां सम्मर्दाधिक्येन हेय्डलबर्ग् विश्वविद्यालयस्य स्वौत् एषिया संस्थया स्विट्सर्लण्ड् इट्टली किमधिकं भारते अपि संभाषणसंस्कृतपाठनाय विद्यालयाः आवश्यकाः इति दशा संजाता। भारतीय उपभूखण्डस्य संस्कृतिः पैतृकं भाषा इत्यादीन् पाठयतस्य इण्डोलजी इति पाठ्यक्रमस्य जर्मनी राष्ट्रे अतीव स्वीकारः वर्तते। पञ्चदशवर्षात् पूर्वं अस्याः संस्थायाः आरंभे यद्यपि वर्षद्वयाभ्यन्तरे बन्धनाय निर्णीतः तथापि इदानीं यूरोप्यन् राष्ट्रेषु अपि पाठ्यक्रमाणां व्यापनमावश्कमिति विश्वविद्यालयस्य प्रो.डो.अलक्स् मैक्लक्स् वदति। संस्कृतभाषां धर्मेण तथा राजनैतिकविचिन्तनैः सह योजनं विवेकशून्यं तथा अस्याः समृद्धं पैतृकं गणनीयमित्यपि सः अभिप्रैति।
संभाषणसंस्कृतपाठनाय सौत् एषिया संस्थया प्रचाल्यमाने विद्यालये विश्वस्य विविधेभ्यः स्थानेभ्यः छात्राः भागभाजः भवन्ति। प्रति संवत्सरं आगस्तमासे एषः ग्रीष्मविद्यालयः प्रारभते। ३४ राष्ट्रेभ्यः २५४ छात्राः भागभाजः भवन्ति। प्रतिवर्षं आवेदकानां संख्या अधिका इत्यनेन आवेदननिरासः अपि संभवति। ब्रिट्टन्तः इट्टलीतः चअधिकाः जर्मन्याम् आगत्य संस्कृतं पठन्ति। मानवशरीरविज्ञानं तथा उपनिषत्सु मनश्शास्त्रं इति विषये अस्मिन् संवत्सरे पाठ्यक्रमः आरप्स्यते। ऐऐटी आनन्दमिश्रा कक्ष्याः नेष्यति। पाणिनेः संस्कृतव्याकरणस्य पठनानन्तरमेव संस्कृतं संगणकस्य अतीवयुक्तमित्यवगतमिति तेन उक्तम्। भारते केन्द्रीयविद्यालयेषु जर्मन् वा संस्कृतं वेति विवादस्यैवावसरे जर्मनी राष्ट्रंट्रं संस्कृतस्य परिपालनं स्वीचकार। संस्कृतस्य अध्ययनेन भारतस्य धार्मिकता न नाशमेतीति जर्मन् सन्दर्शनवेलायां श्री नरेन्द्रमोदी महोदयैः उक्तमासीत्। तदनन्तरं पञ्चशत विद्यालयेषु जर्मन् भाषायाः स्थाने संस्कृतम् आरभत।