OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 4, 2016

पञ्जीकरण-संख्यां विना विहरन्ति भारवाहनानि।
कोच्ची > केरळेषु भारवाहनेषु पञ्जीकरणसंख्यां समीचीनतया द्रष्टुं न शाक्यते। केरलात् बहिः आगतेषु यानेषु संख्याफलकमपि दर्शनयोग्यं नास्ति। वाहनानां पृष्टभागे एव संख्याफलकमेव नास्ति। फलकमस्तिचेत् संख्यां द्रष्टुं न शाक्यते। केषाञ्चन यानानां संख्यायाः आवरणं कर्तुं अलङ्कारादिकम् आरचयन्ति। नूतन यानानि पञ्जीकरणोद्युक्तानि (For Registration)  इति आङ्गलपदमुपयुज्य मार्गेषु स्वतन्त्रतया डयन्ते। इमानि सर्वाण्यपि दुर्घटनानां हेतुः एव। पथिकान् अरक्षितान् कर्तुं एतानि पर्याप्तानि।  मानवानां जीवस्य मूल्यं तृणादपि न्यूनं इत्यनेन प्रदर्श्यते । पथि विद्यमानाः गतागत-नियन्त्रकाः आरक्षकाः अपि अस्मिन्  श्रद्धालवः न। राज्यान्तरादागतेभ्यः भारयानेभ्यः  एतादृशं अपथचालनं संभवतीति केचन चालकाः वदन्ति। बहुवारं एतदधिकृत्य सूचना पञ्जीकरणाधिकारीणां सकाशे दत्ता। किन्तु सर्वापि निष्फला।

 सामाजिकवार्तामाध्यमेषु चीनां विरुद्ध्य सन्देशाः प्रचलन्ति।

कोच्ची > भारतं विरुद्ध्य  पकिस्थानस्य अनुकूलतया च  चीनाराष्ट्रेण कृतं व्यवहारं दृष्ट्वा राष्ट्रभक्ताः भारतीयाः क्षोभितवन्तः। ते चीनां विरुद्ध्य रक्तरहित-संग्रामाय नवमाध्यमेषु अह्वानं कृतवन्तः। चीनया भारते बहूनि वस्तूनि विक्रीयन्ते । बालकानां क्रीडोपकरणानि , जंगमदूरवणी, वैद्युतोपकरणानि, वस्त्राणि, गृहोपकरणानि एतादृशानि असङ्ख्यानि वस्तूनि भारतस्य आर्थिक सम्पदं चीनां प्रति नयन्ति। द्विषष्टि (६२) लक्षं कोटिरुप्यकाणि अनेन मार्गेण  भारतात् बहिः गच्छन्ति। अतः भारतीयाः वयं भारतीयोत्पन्नानाम् उपयोक्तारः भवन्तु इति च आदेशः कृतः वर्तते। अनेनमार्गेण भारतस्य आर्थिकोन्नतिः चीनायाः आर्थिकमण्डले अपचयः च भविष्यति इति अस्मिन् सन्देशे साविस्तरं प्रतिपादितम् ।