OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, December 12, 2016

वार्धा चक्रवातः तमिल्नाटु तीरं प्रति।
चेन्नै >वंगसमुद्रे न्यूनमर्देन रूपमापन्नः वार्धा चक्रवातः वर्धितवीर्यः संहारमूर्तिरूपेण चेन्नैतीरं प्राप्नोति। अतः चेन्नै नगरं भीत्या निमेषान् गणयति। तीरप्राप्यनुसारं वातस्य वेगः वरीवर्धते इति वायुगणनिरीक्षणकेन्द्रस्य निगमनम्।
मध्याह्ने द्विवादनादारभ्य सायं पञ्चवादनाभ्यन्तरे चेन्नै मच्चिलिपट्टण तीरमार्गेण चक्रवातः भारततीरं प्राप्स्यति। चेन्नै विमानपत्तनं पिहितम्। विमानसेवनानि स्थगितानि, कानिचन दिशान्तरं नीतानि। नगरान्तररेल्यानसेवनमपि स्थगितम्। राष्ट्रियदुरन्तनिवारणसेना तीरदेशे विन्यस्ता। प्रतिहोरं १००-११५ कि.मी. भवेत् वातस्य वेगः। चेन्नैयां प्रान्तप्रदेशेषु च वातेन सह कठिना वृष्टिरपि भविता।


जि एस् टि क्रियाविधौ अनुरञ्जनं न सम्प्राप्तम्। 
नवदिल्ली >जि एस् टि नामके पण्यवस्तु सेवनकरविषये संवृत्ता केन्द्रसर्वकारेण सह राज्यवित्तमन्त्रिणां  चर्चा अनुरञ्जनाभावात् विफला जाता।
     पण्यवस्तु सेवनकरसमाहरणं शासननिर्वहणम् इत्यादिविषयानधिकृत्य चर्चायाम् अनुरञ्जनं न सम्प्राप्तम्। अतः अद्यतनमेलनमपि परित्यक्तम्। अनेन, लोकसभायाः प्रवृत्तमाने शीतकालसम्मेलने एतदधिकृत्य देयकावतरणमपि परिवर्तितम्।