OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, December 8, 2016

विमानदुर्घटनया पाकिस्थाने ४७ यात्रिकाः मृताः।
अबट्टाबाद् > सप्तचत्वारिंशत् यात्रिकेण सह उड्डयमानं पाकिस्थानीयं विमानं भग्नं यात्रिकाः मृताः । चित्रालतः इस्लामाबादं प्रति उड्डयमानम् आसीत्। पाकिस्थानस्य एयर्लइन्सस्य (PIA) विमानस्य एव दुरन्तः जातः। गत-दिने सायं सार्धपञ्चवादने इस्लामबादे प्राप्तव्यमासीत्। किन्तु यात्रामध्ये अबट्टाबादस्य अन्तरीक्षोपरिभागतः विमान-गतागत-नियन्त्रकप्रकोष्टं प्रति विद्यमानः बन्धः विनष्टः आसीत् । उड्डयनानन्तरं सार्धचतुर्वादने प्रतिध्वनिग्राहीतः (RADAR) अप्रत्यक्षमासीत्। विमानस्य यान्त्रिकदोषः अस्ति इति वैमानिकेन नियन्त्रण प्रकोष्टं  प्रति उक्तमासीत् इति कैश्चन वार्तामाध्यमैः न्यवेदितम्।

हरितकेरलं पद्धतिः अद्य समारभते।

अनन्तपुरी> नवकेरलसृष्टिं लक्ष्यीकृत्य केरलसर्वकारेण सम्पद्यमाना हरितकेरळम् इति नूतना पद्धतिः अद्य समारभते। नेय्याट्टिन् करा प्रदेशस्थे कळत्तरक्कल् नामके व्रीहीक्षेत्रसमुच्चये बीजवपनं कृत्वा मुख्यमन्त्री पिणरायि विजयः उद्घाटनं करिष्यति। शुचित्वं जलसंरक्षणं कृषिविकसनं पर्यावरणसंरक्षणम् इत्यादिषु मण्डलेषु नैकाः विकसनपद्धयः ग्रामग्रामान्तरेषु निर्वोढुम् उद्दिश्यन्ते।