OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 31, 2016

भीम् आप् विश्वे अत्भुतम् आरच्यते ।
नव दिल्ली >  युष्माकम् अङ्गुष्ठे एव वित्तकोश तथा वाणिज्यः चI बृहत्परिणामः आगमिष्यति। भीम् आप् विश्वस्य बृहदाकारकम् अत्‍भुतंभविष्यति। साङ्ख्य विनिमयाय निर्मतः 'आप्‌' विमोच्य भाषमाणः आसीत् प्रधानमन्त्री नरेन्द्रमोदी। नवीनमिदं आप् अन्तर्जालस्य अभावे अपि प्रवर्तनक्षमः भवति ।पञ्चाशत् गतदिनानियावत् पत्र माध्यमेषु प्रकाशिता वार्ताः सर्वकारस्य पद्धतयः क्रमीकर्तुं उपकारिका आसीत्। अतः माध्यम प्रवर्तकान् प्रति धन्यवादमर्पयामि इति च तेनोक्तम्।

पूर्वनिर्णयेन पुरावृत्तं न व्याख्यातव्यम् - भारतष्ट्रपतिः। 
अनन्तपुरी > पुरावृत्तानां व्याख्याने व्यक्तिनिष्ठः पूर्वनिर्णयः न युक्त इति भारतराष्ट्रपतिः प्रणब् मुखर्जी । पूर्ववृत्तान्तरचनायां विभिन्नानि समीक्षणानि अन्तर्भाव्यानि। तदर्थम् अतिसूक्ष्मं दर्शनसामर्थ्यम् अपेक्षितञ्च। अनन्तपुर्यां सप्तसप्ततितमायाः  भारतीयपुरावृत्तपरिषदः उद्घाटनं कुर्वन् भाषमाणः आसीत् प्रणब् वर्यः।
      न्यायाधीशस्य मनोव्यापारः भवेत् चरित्रकारस्यापि, नैव पक्षसमर्थकस्य। चरित्रं वस्तुनिष्ठतया उपगन्तव्यम्- राष्ट्रपतिः अभाषत। तर्क-वितर्क-सन्देहानाम् अनुकूल-प्रतिकूल-निस्सङ्गानां च भारतीयजनाधिपत्ये स्वातन्त्र्यमस्ति। अतः पुरावृत्तरचनायामपि इदं स्वातन्त्र्यम् अपेक्षितम्। सत्यनिर्णये पूर्वोक्तानां तर्कवितर्कादीनां साहाय्यम् अवश्यमेव। अतः पुरावृत्तव्याख्याने पूर्वपरिकल्पना न युक्ता। राष्ट्रपतिना उक्तम्।
    केरळराज्यपालः न्याया.पि सदाशिवम् अध्यक्षपदमलङ्कृतवान्। मुख्यमन्त्री पिणरायि विजयः मन्त्रिणौ कटकंपिल्लि सुरेन्द्रः , प्रोफ.सि रवीन्द्रनाथः च , विपक्षनेता रमेश् चेन्नित्तला इत्यादयः सन्निहिताः आसन्।