OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 28, 2016

त्रिंशद्दिनाङ्कात्पपरं निरुद्ध-मुद्रापत्र-वशवर्तिनः द्रव्यदण्ड्याः।
नवदिल्ली> निद्धाः पञ्चशत - सहस्र मुद्रारूप्यकाणि निश्चितसंख्याधिकतया दिसम्बर् त्रिंशत्दिनाङ्कात् परं ये स्वाधीनतां कुर्वन्ति तेषां द्रव्यदण्डं व्यवस्थापयितुं केन्द्रसर्वकारः चिन्तयति। अद्यतनमन्त्रिमण्डले अयं विषयः परिगण्यतेति ज्ञायते।
      निर्मूल्यीकृतानि मुद्रारूप्यकाणि वित्तकोशलेखायां निक्षेप्तुम् अन्तिमदिनं भवति दिसम्बर् ३०। ततःपरं ५००,१००० रूप्यकाणां निरुद्धानि मुद्राणि दशसंख्याकात्परं हस्तगतानि भवन्ति चेत् द्रव्यदण्डः भवितव्यः इति अभिज्ञैः सूच्यते। तादृशैः मार्च ३१ पर्यन्तं रिसर्व् बाङ्कस्य प्रादेशिककार्यालयेषु निक्षेपाय अवसरः अस्ति। पञ्चशत - सहस्र मुद्रारूप्यकाणि निश्चितसंख्याधिकतया दिसम्बर् त्रिंशत्दिनाङ्कात् परं ये स्वाधीनतां कुर्वन्ति तेषां द्रव्यदण्डं व्यवस्थापयितुं केन्द्रसर्वकारः चिन्तयति। अद्यतनमन्त्रिमण्डले अयं विषयः परिगण्यतेति ज्ञायते।

टोम् उष़ुन्नालस्य मोचनाय यतिष्यते - सुषमास्वराज्।
नवदिल्ली> येमन् देशात् ऐ एस् भीकरैः अपहृतस्य टोम् उष़ुन्नाल् नामकस्य क्रिस्तीयपुरोहितस्य मोचनाय पुनरपि  यावच्छक्यं यतिष्यते इति भारतस्य विदेशकार्यमन्त्रिणी सुषमास्वराजः ट्विटर द्वारा निगदितवती।
     भारतीयः इत्यतः स्वस्य मोचनाय का पि धर्मसंस्था को पि सर्वकारः वा  यत्किमपि सक्रियं प्रवर्तनं न करोति इति उष़ुन्नालस्य दृश्यनिवेदनं प्रकाशितमासीत्। तस्य प्रतिवचनरूपेणैव सुषमायाः ट्विटर् वचनम्। सर्वेषां भारतीयानां प्राणाः परमप्राधान्यमर्हन्तीति तया निगदितम्।

याचनया लब्धं- भगवते दत्तवान्
विजयवाटिका > आन्ध्राप्रदेशस्य गोण्डापरिसस्थ श्रीराममन्दिरे याचकेन सार्थैकलक्षस्य काच निर्मिततः किरीटः भगवते समर्पितम्। मुत्यालंपडु कोदण्डरामालयस्य यदि रढ्ढिनामकेन भिक्षुकेन एव किरीटः अर्पितः। पञ्चसप्तति वयस्कः अयं कौमारे विजयवाटिकायां आगतवान्। रिक्षावाहकः आसीत्। पञ्च वर्षेभ्यः पूर्वमेव याचकवृत्तिः स्वीकृता। बान्धवाः नास्ति इत्यनेन लब्धंधनं आध्यात्मिक-कार्याय उपयोक्तुं निश्चितवान्।