OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, December 19, 2016

ऐ एस् एल् पादकन्दुकस्पर्धा - कोल्कोत्तायै किरीटम्। 
कोच्ची> ऐ एस् एल् पादकन्दुकस्पर्धा - कोल्कोत्तायै किरीटम्।
कोच्ची - गर्जन्तं पीतसागरं निश्शेषं पीत्वा अत्लटिको डि कोल्कोत्ता सङ्घः ऐ एस् एल् पादकन्दुककिरीटं शिरसि धृतवान्। कोच्ची जवहर् लाल् नेहरू अन्ताराष्ट्रक्रीडाङ्कणे सम्पन्नायां अन्तिमस्पर्धायां पञ्चाशत्सहस्राधिकैः पीतवस्त्रधारिभिः केरला ब्लास्टेर्स् आराधकैः सम्पूर्णसहयोगे कृते अपि अन्तिमविजयः कोल्कोत्तादलं प्राप्तवान्।
      निश्चितसमये एकैकं लक्ष्यकन्दुकं प्राप्य दलद्वयमपि समस्थितौ आसीत्। ततः अर्धहोरायाः अधिकसमये अपि तत्स्थितिम् अनुवर्त्य शरव्यप्रक्षेपणं [Shoot out] नीतम्। तत्र ४-३ इति लक्ष्यकन्दुकविन्यासेन केरल ब्लास्टेर्स् दलं पराजित्य अत्लटिको डि कोल्कोत्ता दलेन विजयकिरीटं प्राप्तम्।

कनिष्ठवर्गीया विश्वहॉकीचषकस्पर्धा
नवदिल्ली >भारतेन 15 वर्षानन्तरं जूनियर इति  कनिष्ठवर्गीया विश्वहॉकीचषकस्पर्धा विजिता । लखनऊ-नगरस्य मेजरध्यानचंदराष्ट्रियक्रीडांगणे निर्णायकस्पर्धायां भारतेन बेल्जियम: एकांकं विरुध्य अंकद्वयेेन पराभूय विजयश्रीरधिगता। भारतेन स्पर्धायाः अंकद्वयं क्रीडायाः प्रथमार्धभागे समर्जितम् । प्रथमगोलांकः गुरजंतसिंहेन द्वतीयश्च सिमरनजीतसिंहेन समर्जितः । इतः प्राक् 2001तमे वर्षे भारतीयक्रीडकदलेन अर्जेंटीनादेशं पराजित्य स्पर्धेयं विजितासीत् ।