OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, December 6, 2016

जयललिता दिवंगता।
चेन्नै> तमिळ् जनतायाः प्रार्थनाः विफलीकृत्य तेषाम् अम्बा तथा तमिळ्   मुख्यमन्त्रिणी कुमारी जे. जयललिता इहलेकवासं त्यक्तवती। अष्टषष्टिवयस्कायाः तस्याः अन्त्यं ह्यः रात्रौ ११.३० वादने  आसीत्।
   गतानि ७५ दिनानि यावत् जयललिता चेन्नैयाम् अप्पोलो आतुरालये चिकित्साविधेया आसीत्। रविवासरे सायंकाले सञ्जातेन हृदयाघातेन तस्याः आरोग्यस्थितिः गुरुतरा अभवत्। ह्यः अर्धरात्रौ मरणं स्थिरीकृत्य अप्पोलो आतुरालयाधिकृतैः ज्ञापकपत्रं प्रकाशितम्।
     ओ.पनीर् शेल्वम् मुख्यमन्त्रिपदे अवरोधितः। तमिल् नाट् राज्ये सप्तदिनानाम् दुःखाचरणं प्रख्यापितम्। सर्वकारकार्यालयानां शिक्षासंस्थानां च त्रिदिनात्मकः विरामः विज्ञापितः।

'टाइम् पर्सन् ऑफ् द ईयर्'-प्रतिस्पर्धकेषु प्रधानमन्त्रिणे नरेंद्रमोदिने विजयः।
नवदेहली>प्रधानमंत्री नरेंद्रमोदी ऐषमः 'टाइम् पर्सन् ऑफ् द ईयर् ' इत्यस्य प्रतिस्पर्धकेषु प्रप्रथमस्थानत्वं भजति । टाइम्स समवायस्य ONLINE READERS POOL इति अन्तर्जालीय पाठकसर्वेक्षणे मोदिना बराक-ओबामा डोनाल्डट्रम्प सदृशाः अन्ताराष्ट्रिय नेतारः पराजित्य विजयः अधिगतः। अस्य विजयस्य औपचारिकोद्घोषणा दिसंबरमासस्य सप्तमे दिने भविष्यति ।
  ध्येयास्पदं यत् ऐषमः 'पर्सन् ऑफ दि ईयर' इत्यस्य कृते अमेरिकायाः राष्ट्रपतिः हिलेरीक्लिंटनः एफ.बी.आई. इत्यस्य प्रमुखः जेम्स-कोमी एप्पल् समवायस्य मुख्यकार्यकार्यधिकारी टिम् कुकः स्वदेशाय हुतिंगतस्य अमेरिकीय सैन्यभटस्य हुमायूँखानस्य पितरौ उत्तरी कोरियायाः किम-जोंग-उनः ब्रिटिश-प्रधानमंत्री थेरेजा-मे चीनराष्ट्रस्य राष्ट्रपति: शी जिनपिंगश्च सम्मिलिताः सन्ति।