OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, December 29, 2016

आभारतम् ऑण् लैन् सुरक्षायै गूगिलः आगमिष्यति। 
नवदिल्ली>ऑण् लेन् सुरक्षामधिकृत्य सुखबोधाय उपभोक्तृमन्त्रालयस्य सहकारितया पठनवर्गः आयोक्ष्यते । संवत्सरं यावत् वर्गः प्रचाल्यते । कथम् ऑण्लेन् सुरक्षां प्राप्नुयामः इति राष्ट्रियस्थरे कार्यक्रमाः आयोक्ष्यते इति गूगिलेन ज्ञापितः। उपभोक्तृदलानां कार्यक्षमता, अन्तर्जालसुरक्षा, अन्तर्जाल सङ्केतानधिकृत्य अवबोध वर्धनम् च लक्ष्यम् इति गूगिल् संस्थायाः भारतस्य वक्त्रा चेतन् कृष्णमूर्ति महोदयेन उक्तम्। प्रथमे परिशीलनसत्रे पञ्चशतम्  जनाः भागभाजःभविष्यन्ति। २०१७ जनुवरि मासे परिशीलनसत्रस्य आरम्भम् इति निश्चितम्।

संस्कृतस्य कृते आत्मनं समर्प्यप्य सुजा गतवती। 
सम्प्रतिवार्तायाः वार्ताहरा सुजाहरिदास् दिवङ्गता।
त्रिश्शिवपेरूर्> सम्प्रति वार्तायाः प्रारम्भात् आरभ्य वार्तालेखिकायाः कर्मणा संस्कृतसेवां कुर्वन्ती असीत् सुजा महाभागा। संस्कृतभारत्याः निस्वार्थसेविकारुपेण बहुकालं प्रवर्तनं कृतवती। त्रिशूर् जनपदस्य चेर्प्‌ सर्वकारीयविद्यालये संस्कृताध्यापिकापदम् अलङ्कुर्वन्ती आसीत् । ललितया रीत्‍या  संस्कृतकक्ष्याचालने सुजायाः नैपुणी बहुवारं प्रशंसिता आसीत्।  अनारोग्ये अपि संस्कृतभाषा प्रचाराय  स्वमृत्युपर्यन्तं प्रयत्नं कृतवती। वृक्करोगेण पीडिता सा गतमासादारभ्य एरणाकुळे औषधालये चिकित्सायाम् आसीत्। ह्यः रात्रौ आसीत् तस्याः निधनम्।