OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, December 27, 2016

अग्निःपञ्चमः नाम बाणस्य परीक्षणविजयः।
नवदिल्ली > आणवायुधवहनक्षमः भूखण्डान्तरबाणः अग्निःपञ्चः इत्याख्यः परीक्षणे विजयं प्राप्तवान्। ओडीषा राज्यस्य कलां द्वीपतः सोमवासरे प्रातः आसीत्  विक्षेपणम्। परीक्षणस्य उत्तीर्णतया बालिस्टिक् राष्ट्राणां दले भरतस्यापि प्रवेशः अलभत। अमेरिका, रष्‍या, चैना, फ्रान्स् ब्रिटन् प्रभृतीनां राष्ट्राणां एव एतावत्पर्यन्तं
बाणस्य अधीशत्‍वम्। अस्य बाणस्य आक्रमण परिधिः पञ्चसहस्रं किलोमीटटर् एव। परीक्षायाः अन्तिमभागः अधुना समजायत

भारतोपभूखण्डस्य कलापारम्पर्यम्  संस्कृतसम्पन्नम्-
अश्वति तिरुनाल् गौरी महाराज्ञी। 
श्रीशङ्कर नृत्तविद्यालयस्य २५तम वार्षिकाघोषाणाम् उद्घाटनं निर्वहन्ती महाराज्ञी गौरी लक्ष्मी भायी।
कालटी> भारतोपभूखण्डस्य संगीतनृत्तादिकलापारम्पर्यः संस्कृतभाषायाः अधीशत्वे विकासं प्राप्य अग्रिमस्थानमर्हतीति तिरुवितांकोट् देशस्य राज्ञीस्थानमलङ्कुर्वन्ती अश्वतितिरुनाल् [अश्वतीनक्षत्रजाता] गौरी लक्ष्मीभायी अवदत्। कालट्यां श्रीशङ्करा स्कूल् आफ् डान्स् इति नृत्तविद्यालयस्य पञ्चविंशतितमसंवत्सरीयमहोत्सवम् उद्घाटनंकुर्वन्ती भाषमाणा आसीत् महाराज्ञी। भारतस्य दक्षिणराज्यस्य केरलस्य कूटियाट्टमिति कलारूपं ऐक्यराष्ट्रसभायाः युनेस्को संस्थया पैतृक-पारम्पर्यकलारूपेण अङ्गीकृतमिति केरळस्य कलापारम्पर्यस्य संस्कृतपारम्पर्यस्य च उत्तमनिदर्शनमिति महाभागया प्रस्तौतम्। अनुबन्धकलारूपाणां पट्टिकायां केरळस्यैव मुटियेट् इति कलारूपमपि अन्तर्भूतम्।
      सम्मेलने स्मिन् कालटि श्रीशङ्कराचार्य संस्कृत विश्वविद्यालयस्य उपकुलपतिः डॉ.एम् सि दिलीप् कुमारः, केरलकलामण्डलं कल्पित-विश्वविद्यालयस्य भूतपूर्वोपकुलपतिः डॉ.के जि पौलोस्,  नाट्यकलागुरुः कलामण्डलं कल्याणिक्कुट्टियम्मा इत्यादयः सन्निहिताः आसन्।