OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, December 5, 2016

जयललितायाः हृदयाघातः, तीव्रपरिचरणविभागे प्रविष्टा।
चेन्नै> अप्पोलो आतुरालये चिकित्सायां वर्तमाना तमिळनाड् मुख्यमन्त्रिणी जयजलिता रविवासरे सायन्तने  हृदयाघेन पीडिता। अतितीव्रपरिचरणविभागे प्रविष्टा सा विदग्धभिषग्वराणां सूक्ष्मनिरीक्षणे वर्तते। तस्याः स्वास्थ्यस्थितिः न शुभोदर्कः इति सूच्यते।

प्राणरक्षौषधं विद्यालयस्थ-परीक्षणशालायां निर्मीय छात्राः!।
सिड्नी> प्राणरक्षौषधस्य मूल्यं पञ्चसहस्रगुणितं वर्धयन्तं औषधनिर्माणश्रेणिनं पराजित्य आस्ट्रेलिया राष्ट्रस्य उच्चतरविद्यार्थिनः विद्यालयस्थायां परीक्षणशालायाम् औषधं निर्मितवन्तः! एयिड्स्,(AIDS ) पूतिवायुः (Malaria ) रोगबाधितेषु अणुबाधां विरुध्य उपयुज्यमानस्य "दाराप्रिम्" नामकस्य औषधस्य घटकान् न्यूनातिन्यूनव्ययेन सिड्निप्रदेशस्थे ग्रामर् विद्यालयस्थाः छात्राः विकसितवन्तः!
     गतसंवत्सरे केवलम् अष्टादश डोलर्  परिमितमासीत् सहस्रशः रोगिणाम् आश्वासदायकस्य दाराप्रिम् औषधस्य मूल्यम्। किन्तु मार्टिन् ष्क्रीलि नामके दाराप्रिं गुडिकानिर्माणसंस्थायाः स्वामित्वे प्राप्ते औषधस्य मूल्यं पञ्चसहस्रगुणितं वर्धयित्वा ७५० डोलर् परिमितमकरोत्। लोके नितराम् अभिशप्त इति माध्यमैः विशेषितः अयं ष्क्रीली।
    लोकारोग्यसंस्थायाः अवश्यौषधगणे अन्तर्भूतस्य दाराप्रिम् औषधस्य सहस्रगुणितमूल्यं श्रद्धां कृतवन्तः ग्रामर् विद्यालयस्थाः ११ छात्राः कथं न्यूनव्ययेन औषधोत्पादनं कर्तुं शक्यतेति अनुसन्धानं कृतवन्तः आसन्।

 व्याजरूप्यकनिर्मार्जनं - विजयः  प्रतिशतं१२ सङ्कोचयिष्यतीती।
 बेङ्गलुरु> मुद्रारूप्यकाणाम् असाधुवत्करणेन व्याजधनं निर्मार्जयितुं न शक्यते इति इन्डिया रेटिंग्स् नामकसंस्थायाः निरीक्षणम्। अस्य क्रियाविधेः प्रयोजनं केवलं १२%  स्यादिति तेषाम् पठनं समर्थयति।

केरळाब्लास्टेर्स् उपान्त्यचक्रं प्रविष्टम्।
कोच्ची - नोर्त् ईस्ट् युणैटड् दलम् एकपक्षीयेन लक्ष्यकन्दुकेनैकेन पराजित्य केरलाब्लास्टेर्स् दलम् ऐ एस् एल् पादकन्दुकक्रीडायाः उपान्त्यपादं प्रविष्टम्।
      ह्यः कोच्चीनगरे जवहर्लाल् नेहरु अन्ताराष्ट्रक्रीडाङ्कणे सम्पन्ने मत्सरे ६६तमे निमिषे केरलीयेन सि के विनीतेन एव निर्णायकं लक्ष्यकन्दुकं प्राप्तम्। अनेन विजयेन २२ अङ्कैः सह केरला ब्लास्टेर्स् पट्टिकायां द्वितीयस्थानम् अवाप।