OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, November 2, 2017

यू पि तापनिलये स्फोटनं - २० मरणानि। 
           रायबरेली > उत्तरप्रदेशस्थे राय्बरेलिप्रविश्यायां 'नाषणल् तेर्मल् पवर् कोर्परेशन्' संस्थायाः अधीनत्वे विद्यमाने तापनिलये संवृत्ते विस्फोटने विंशतिः कर्मकराः मृताः, शतप्रायाः क्षताः च। दुरन्तबाधितानां संख्या अधिकतरा स्यादिति उत्तरप्रदेशस्य मुख्यगृहसचिवेन उक्तम्। 
         रायबरेल्यां ऊंचहार् क्षेत्रस्थे २९ संवत्सराणि प्राचीने तापनिलयस्थे बाष्पित्रं (Boiler) एव विस्फोटित। २१० मेगावाट् शेषियुक्ताः पञ्च एककानि (unit) अत्र विद्यन्ते। ५०० मेगावाट् शेषियुक्तं एककान्तरमपि गते मार्च् मासे प्रवर्तनमारब्धमासीत्। अस्मिन् विद्यमानं बाष्पित्रमासीत् विस्फोटितम्। देशीयदुरन्तसेनया रक्षाप्रवर्तनमारब्धम्। मृतानाम् आश्रितानां कृते लक्षद्वयरूप्यकाणां क्षतिसाहाय्यं मुख्यमन्त्रिणा योगि आदित्यनाथेन  प्रस्तुतम्।