OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, November 9, 2017

पथः पार्श्वे बन्धितानि यानानि परिस्थितेः भीषाम् उत्पादयन्ति । - विद्यार्थिनः उच्च-न्यायालये न्यायव्यवहारं दत्तवन्तः।

           कोच्ची> आरक्षाकालये ग्रहीतानि-वाहनानि परिस्थितेः  दोषमुद्पाद्य मार्गपार्श्वेषु वर्तन्ते। यानस्य लोहभागानाम् उपक्षयकारणेन सञ्जातस्य सार्वजनिक नष्टस्य परिरक्षणाय च छात्राः सार्वजनिक-निवेदनं दत्तवन्तः। 

          केरलस्य विविधेषु आरक्षकालयेषु न्यायव्यवहारेषु बद्धानि वाहनानि परिरक्षां विना द्रवीकृत्य नाशं यान्ति। अनेन कारणेन राष्ट्रधनस्य नष्टः भवति इति अध्ययनफलं प्रदर्श एव छात्रैः उच्चन्यायालये व्यवहारः पञ्जीकृतः। पेरिङ्डों वयक्कर पञ्चायत्तस्य तविडिश्शेरि सर्वकार-विद्यालयस्य विद्यार्थिभिः एव एवं न्याय-व्यवहाराय न्यायालयः प्राप्ताः। विद्यालयस्य सप्तमकक्ष्यायाः छात्रे  इ विस्मय, के पि अनुप्रिया, षष्ट कक्ष्यायाः  सि अनुश्री, पञ्चमकक्ष्यायाः के.जी नाथ् , एम् अञ्जली च मिलित्वा विषयेस्मिन् अध्ययनं कृत्वा अध्ययन-फलेन साकं न्याय-व्यवहारं कृतवन्तः।

      एतत् अध्ययनफलम् अनुसृत्य   केरलेषु प्रति संवत्सरं अष्टाधिक अष्टशतोत्तरैक सहस्रं टण् मितः (1808 ) लोहाः क्षयेण नाशं यान्ति।  नव-शताधिक त्रिपञ्चाशत्  सहस्रोत्तर त्रिचत्वारिंशत् लक्षाधिकत्रिकोटि (3,43,53,900 ) रुप्यकाणां नष्टः पुरातनलोहस्य  मूल्यत्वेन सङकलिते अपि अस्ति। न्यायव्यवहारेषु अन्तिमादेशाय जायमानं  कालदैर्ख्यम्  एव एतादृशनष्टस्य  कारणेषु प्रमुखम् इति । विद्यालयस्य अध्यापकस्य के सि सतीशस्य नेतृत्वे असीत्  छात्राणां विशेषाध्ययनम्।