OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 6, 2017

यु एस् राष्ट्रे देवालये गोलिका प्रहारः - २७ जनाः हताः।
                 वाषिङ्टण् > यु एस् राष्ट्रस्य टेक्सस् मध्ये प्रार्थना वेलायां आक्रमकारिणा क्रियमाणे गोलिकाप्रहारे सप्तविंशति (२७)जनाः मारिताः सङ्ख्याधिकाः जनाः क्षतजाः च। अन्टोणियो प्रदेशस्य समीपे विल्सण् कौण्डि सतर्लान्ट् स्प्रिङ्स् मध्ये वर्तमाने 'फस्ट् बाप्तिस्ट्' देवालये एव दुर्घटना। प्रादेशिकसमयः ह्यः प्रभाते ११.३० वादने एव आक्रमणः अभवत्I प्रार्थनावेलायाम् आगतः आक्रमणकारी अतिचटुलतया गोलिका प्रहारं कृतवान् आसीत्।  गोलिका प्रहारशब्दाः बहुवारं निमिषाभ्यन्तरेण अनुवर्तिताः  इति प्रदेशवासी अवदत्l  अधुना लभ्यमानायाः  सूचनायाः अनुसारेण अक्रमी अपि मृतः। एफ् बि ऐ संस्थया अत्र अन्वेषणमारब्धम्।