OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, November 14, 2017

शिशवः बहवः अदर्शनं गताः भवन्ति।
          कोच्ची> भारते अष्टनिमेषाभ्यन्तरे एकः शिशुः इति गणितप्रकारेण नष्टाः भवन्ति। केन्द्र-वनिता शिशु-क्षेम -मन्त्रालयस्य अन्तर्जालपुटे प्रकाशित-विवरणानुसारं दक्षिणस्यां दिशि केरलेऽपि प्रतिदिनं त्रयः शिशवः एवं अधार्मिकैः अपहृत्य कुत्रापि अन्तर्धानं गताः नष्टाः भवन्ति।

अप्रत्यक्षाः के?
         पितरं विरुद्ध्य अनिष्टेन गृहं परित्यज्य गतवन्तः एव अप्रत्यक्षेषु अधिके भवन्ति।   एते राष्ट्रस्य विविधेषुकोणेषु बालश्रमिक-रूपेण कालं यापयन्ति। केचन भिक्षुकसंघस्य निर्देशम् अनुसृत्य भिक्षाटनं कृत्वा नरकपीडां अनुभवन्ति । बालिकाः तु निकृष्टकर्मसु नीताः भवन्ति। काश्चन राष्ट्रान्तरं नीताः। अन्ये अन्तरावयवमुमुषिषुभिः जनैः बलादपहृताः वा पीडिताः वा उत मारिताः वा भवन्ति। मोचनद्रव्यस्यकृते बालापहरणे जाते  पक्षनियामकविधानम् अपि पञ्चीकृतम् अस्ति।
एवं स्थिते बालकबालिकयोः सुरक्षायै आधारपत्रस्य जीवमात्रक सौविध्यानि उपयोक्तव्यानि।  बालकेन सह गमनाय सर्वत्र  संलक्ष्य एव अनुज्ञा दातव्या। एवं चेत् बालकेन सह कः अनुगच्छति इति ज्ञातुं प्रभवति इति एकः उपायः । शिशूनां संरक्षणाय नूतनानि उपायानि करणीयानि।