OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, November 2, 2017

यानदुर्घटनानां निष्कृतिदानाय मानदण्डं विधाय सर्वोच्चन्यायालयः। 
               नवदिल्ली > यानदुर्घटनाभिः हतेभ्यः निष्कृतिं निर्णेतुं सर्वोच्चन्यायालयेन नूतनः मानदण्डः निर्दिष्टः। हतानां 'भविष्त्कालसाध्यताम्' अपि परिगणय्य तेषामायः कथं निश्चितव्यमित्यस्य मार्गरेखा एव न्यायालयस्य शासनसंहितापीठेन निर्दिष्टा। 
     हतभाग्यः स्थिरकर्मयुक्तः तथा ऊनचत्वारिंशद्वयस्कः चेत् तस्य वेतनेन सह प्रतिशतं पञ्चाशच्च योजयित्वा एव तस्य भविष्यत्कालायः निर्णेतव्यः। यदि हतः ४०-५० वयस्कः वेतनेन सह ३०% अधिकतया योजयितव्यम्! वयः ५०-६० तर्हि १५% अधिकतया योजयितव्यम्! 
   यदि हतः ऊन४०वयस्कः तथा निजीयकर्मकरः स्थिरवेतनयुक्तश्च तर्हि वेतनस्य ४०% अपि अधिकतया योजयितव्यम्!