OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, November 12, 2017

'आसियान्' उच्चशिखरसम्मेलनम् अद्य प्रारभते। 
            मनिला > दक्षिण-पूर्वेष्यन् राष्ट्राणां सङ्गमस्य 'आसियान्' नामकस्य एकत्रिंशः उच्चशिखरसम्मेलनं फिलिप्पीन्स् राष्ट्रस्य राजधान्यां मनिलायाम् अद्य प्रारभते। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी सम्मेलनार्थम् अद्य एव प्रस्थास्यति।  अमेरिक्कायाः राष्ट्रपतिः डोणाल्ड् ट्रम्पः अपि भागभागित्वं करिष्यति। 
    रोहिङ्ग्यन् समस्या, दक्षिणचीनासमुद्रविषयः, आतङ्कवादः इत्यादयः चर्च्यमानविषयाः भविष्यन्तीति मन्यते। उच्चशिखराय आसियान् सङ्घस्य दश राष्ट्रप्रतिनिधयः फिलिप्पीन्स् प्राप्स्यन्ति। 
    आस्ट्रेलिया, चीना, भारतं, जापान्, न्युसिलान्ट्, दक्षिणकोरिया, रष्या, यू एस्, कानडा, यूरोप्यन् यूणियन् इत्येतानि अङ्गराष्ट्राणि भवन्ति।