OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 25, 2017

ईजिप्ट् राष्ट्रे इस्लामदेवालये भीकराक्रमणं - २३५ मरणानि। 
            केय्रो> ईजिप्ट् राष्ट्रस्य उत्तरसिना नाम प्रविश्यायां कस्मिंश्चित् इस्लामदेवालये दुरापन्ने भीकराक्रमणेन पञ्चत्रिंशदधिकद्विशतं विश्वासिजनाः मृताः।शताधिकाः आहताः च। इस्रायेल्-पालस्तीन् सीमायां 'बिल् अल् अब्द्' नगरे अल् रौदा मुस्लिम देवालये प्रार्थनावेलायामासीत् स्फोटनरूपम् आक्रमणम्। स्फोटनानन्तरं बहिः पलायितान् जनान् वाहनैः प्राप्ताः अक्रमिणः भुषुण्डिप्रयोगेणापि मारितवन्तः। ईजिप्त् राष्ट्रस्य चरित्रे जातं बृहत्तमं भीकराक्रमणं भवत्येतत्।
         आक्रमणस्य उत्तरदायित्वं केनापि न स्वीकृतम्। किन्तु  २०११ आरभ्य राष्ट्रे निरन्तरमाक्रमणं कुर्वन्तः ऐ एस् भीकराः एव अस्य भूमिकायामिति निगमनम्।