OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, November 5, 2017

भगिनी राणी मरिया 'संस्तुता' जाता। 
             इन्डोर् > सर्वं येशुदेवं समर्प्य सेवनमार्गे सञ्चरन्त्याः यत् बलिदानित्वं जातं, तत् अभिवन्द्य कत्तोलिक्का परमाधिकारसभया यदुद्घुष्टं , तदनुसारेण सा संस्तुता भवति।   सा ईशवीया उपासिका  सिस्टर् राणी मरिया इति ख्याता। सहस्रशः क्रैस्तविश्वासिनां सान्निध्ये शनिवासरे प्रभाते दशवादने मध्यप्रदेशस्य इन्डोर् प्रदेशस्थे 'सेन्ट् पोल्' उच्चतरविद्यालयाङ्कणे संवृत्ते कार्यक्रमे फ्रान्सिस् मार्पाप्पा वर्यस्य प्रख्यापः प्रतिपुरुषेण कर्दिनाल् डो. आञ्जलो अमात्तो वर्येण  प्रस्तुतः। प्रतिसंवत्सरं फेब्रुवरी २५ दिनाङ्कः राणी मरियायाः  पुण्यदिनत्वेन चरिष्यति। संस्तुतानां गणे सिस्टर् राणीमरिया भारतसभायाः प्रथमा बलिदानिनी भवति।