OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, November 3, 2017

एस् बि ऐ वित्तकोशेन भवन - वाहनाभ्यां ऋणस्य शिखावृद्धिः न्यूनीकृता।
                 मुम्बै> राष्ट्रस्य बृहत्तमवित्तकोशेन एस् बि ऐ संस्थया भवन-वाहनाभ्यं दीयमानाय ऋणधनस्य शिखावृद्धिः न्यूनीकृता। भवनऋणस्य ८.३०% वाहन ऋणस्य ८.७०% च भवतः। अनया विपण्यां न्यूनतमा शिखावृद्धिभूता वित्तकोश-संस्था इति ख्यातिः एस् बि ऐ वित्त-कोशाय लभते। नवम्बर मासस्य प्रथम दिनाङ्कात्  आरभ्य इयं सुविधा प्रबला अभवत् इति वित्तकोशेन ज्ञाप्यते। 

               नूतनतया ऋणस्वीकारेभ्यः एव प्रथमतया न्यूनीकरणस्य  आनुकूल्यं लभतेI अन्येषां तु निश्चितकालानन्तरम् एव आनुकूल्यवितरणं भविष्यति। एतदनुसृत्य निष्कृत्यायकारिभ्यः वनिताभ्यः ३० लक्षपर्यन्तेभ्यः भवनऋणस्य कृते ८.३०% इति शिखावृद्धिः पुनर्निर्णीतम्। एतदधिरिच्य प्रधानमन्त्री आवास योजनानुसारं अर्हानां कृते २.६७ कोटि रुप्यकाणाम् अर्थसाहाय्यः च लभते।