OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, November 1, 2017

कोच्ची मेट्रो योजनायै राष्ट्रियपुरस्कारः। 
नवदिल्ली > वरिष्ठानुबन्धगतागतश्रृङ्खलायाः समर्प्यमाणः राष्ट्रिय पुरस्कारः केरलस्य कोच्ची मेट्रो रेल्यानयोजनायै ।  मेट्रो यात्रामनुबन्ध्य बस् यानसेवनं, 'जल मेट्रो', त्रिचक्रिकासेवनानि इत्यादयः संयोज्य वरिष्ठं सामाजिकगतागतसंविधानस्य आयोजनायै एवायं पुरस्कारः। केन्द्रनगरविकसनमन्त्रालयेन आयोजितः अयं पुरस्कारः नवम्बर् षष्ठदिनाङ्के हैदराबादे उपराष्ट्रपतिना वैङ्कय्य नायिडुवर्येण सम्मानीयते।
      अस्मै पुरस्काराय ४६ नगराणि प्रतिस्पर्धितानि। राष्ट्रस्य नगरान्तराणां कोच्ची मेट्रो योजनायाः संयोजितसंचरणसुविधा आदर्शभूता भवतीति पुरस्कारनिर्णयसमित्या प्रकीर्तितम्।