OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 10, 2022

 हमीरपुरम् न्यायाधीशः संस्कृतभाषायाम् अदेशः दत्तवान्।

हमीरपुर-उत्तरप्रदेशः> जिल्ला दण्डाधिकारी डॉ. चन्द्रभूषणः न्यायालयादेशः संस्कृतभाषायां दत्वा नूतनप्रक्रमः समारब्धः। अनुसूचित जातीया व्यक्तिः स्वस्यभूमिः  इतरजातीयव्यक्त्यै विक्रयं कृतवान् इति विषये संस्कृतभाषया निर्णयादेशं दत्तवान् जनपदस्तरीय-दण्डाधिकारी डॉ. चन्द्रभूषणः। एवं न्यायालयस्य संस्कृतभाषायाः  प्रथमादेशः भवति अयम्। एषः न्यायाधीशः संस्कृतभाषायां पी एच् डी स्वीकृतवानासीत्। अयं नवप्रक्रमः संस्कृतभाषायाः प्रोत्साहनाय भविष्यति इति बार् कौण्सिल् अध्यक्षेण दिनेशशर्मणा उक्तम्।


 एतां भाषां ज्ञातुं, अवगन्तुं च वयं प्रयत्नशीलाः भविष्यामः इत्यपि तेन उक्तम्। प्रायेण हिन्दीभाषायां अथवा आङ्ग्लभाषायां निर्णयाः प्रसारिताः भवन्ति । संस्कृतभाषायां न्यायादेशं दत्त्वा प्रशंसनीयः उपक्रमः समारब्धः इत्यनेन संस्कृतप्रेमिणः सन्तुष्टाः भवन्ति।