OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 12, 2022

 एष्या चषकक्रिक्कट् - श्रीलङ्का विजिता। 

दुबाय्> एष्या चषकक्रिक्कट् स्पर्धापरम्परायाः अन्तिमस्पर्धायां पाकिस्थानं २३ धावनाङ्कैः पराजित्य श्रीलङ्का विजयश्रीलालिता अभवत्। अन्तिमद्वन्द्वे प्रथमं कन्दुकताडनं कृतवती श्रीलङ्का २० क्षेपणचक्रैः ६ ताडकानां विनष्टे १७० धावनाङ्कान् प्राप्तवती। प्रतिद्वन्द्वे क्रीडायाः अन्तिमकन्दुकक्षेपणे पाकिस्थानस्य  सर्वे ताडकाः बहिर्गताः। तेषां लाभः केवलं १४७ धावनाङ्काः। 

  श्रीलङ्कायाः षष्ठः एष्याचषककिरीटप्राप्तिः एषः। दारिद्र्य संघर्षादिसङ्कटेषु निमग्नायै श्रीलङ्कायै तस्याः कीडादलम् अनेन विजयेन महत्सान्त्वनमेव अदात्।