OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 12, 2022

 द्वारकापीठस्य शङ्कराचार्यः स्वरूपानन्दसरस्वतिस्वामिनः समाधिं प्राप्तवन्तः। 


भोप्पालः> श्रीमदादिशङ्कराचार्येण अद्वैतवेदान्तदर्शनप्रचाराय  स्थापितेषु चतुर्षु मठेषु अन्यतमस्य गुजरातस्य  द्वारकापीठस्य इदानीन्तनाचार्यः स्वामि स्वरूपानन्द सरस्वती स्वधामं प्राप्तवान्। बदरीनाथस्थस्य ज्योतिर्मठस्य च आचार्यः आसीत्। 

  १९२४ तमे वर्षे मध्यप्रदेशस्थे सियोनिजनपदे डिगोरिनामके आसीत् अस्य सन्यासिवर्यस्य जननम्। पोतिराम उपाध्याय इत्यासीत् पूर्वाश्रमनाम। बाल्य एव आध्यात्मिकविषयेषु तत्परः सः नवमे वयसि आत्मीयान्वेषणाय गृहं तत्याज। १९४२ तमवर्षस्य 'क्विट् इन्डिया' स्वतन्त्रतान्दोलने भागं गृहीतवान् सः तत्कारणेन द्विवारं कारागारबन्धितश्चाभवत्। 

  विविधविषयेषु स्वस्य मत दृढतामालक्ष्य सः 'विप्लव स्वामी'ति प्रथां लब्धवान्। १९८१ तमे शङ्कराचार्यपदमलभत। समाध्युपवेशनकर्माणि अद्य आश्रमे सम्पत्स्यति।