OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, September 9, 2022

 एलिसबत् राज्ञी दिवङ्गता।

लण्डन्> ब्रिडण् देशस्य एलिसबत् राज्ञी (९६) दिवङ्गता। ब्रिट्टीष् राज्ञ्याःग्रीष्मकालवासस्थाने   स्कोट्ट्लण्डस्थे बाल्मोरल् राजभवने एव देहवियोगः अभवत्। गतवर्षे ओक्टोबर् मासादारभ्य स्वास्थ्यसमस्यया पीडिता आसीत् एषा। गुरुवासरे प्रभाते विशेषस्वास्थ्यपरिशोधनानन्तरं तस्याः स्वास्थ्यविषये भिषग्वरैः आशङ्कां प्रकटितवन्तः। तत्पश्चात् तस्याः देहवियोगः अभवत्। बेक्किंङ्हाम् राजभवनेन सविशेषप्रतिवेदनद्वारा एव वियोगवार्ता आवेदिता। अनन्तरं राज्ञ्याः ज्येष्ठपुत्रः चाल्स् ब्रिट्टणस्य राजा भविष्यति।