OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Friday, September 9, 2022

 प्रतिशतं २९ छात्राणाम् एकाग्रता नास्तीति एन् सि इ आर् टि संस्थायाः समीक्षणम्। 

नवदिल्ली> षष्ठकक्ष्यातः दशमकक्ष्यापर्यन्तेषु छात्रेषु २९% छात्रेषु एकाग्रता  अतिन्यूना इति National Council of Educational Research and Training (NCERT) संस्थया कृते मानसिकस्वास्थ्यसमीक्षणे स्पष्टीकृतम्। ११- १५ वयस्केषु छात्रेषु कठिनानि वैकारिकव्यतिचलनानि (Mood swings) दृश्यन्ते। छात्राणां मानसिकस्वास्थ्यं परिमातुं NCERT संस्थायाः मनोदर्पण् नामकविभागेनैव इदं समीक्षणं कृतम्। आराष्ट्रं ३. ७९ लक्षं छात्राः एतस्मिन् समीक्षणे भागभाजः अभवन्। 

  प्रतिशतं ७३ छात्राः विद्यालयजीवने तृप्ताः सन्ति। ८१% छात्राः अध्ययन-परीक्षा-परीक्षाफलविषयेषु उत्कण्ठाकुलाः भवन्ति। 'ओण् लेन्'अध्ययनं प्रति ५१% छात्राः प्रतिकूलिनः वर्तन्ते। 

  उन्नतमूल्यगुणयुक्ताः सामाजिकव्यवहाराः, वैयक्तिकबन्धाः, योगानुष्ठानं, ध्यानमित्यादीनि छात्राणाम्  उद्वेगान् न्यूनीकर्तुं  समर्थकानि भवन्तीति समीक्षणस्य आवेदनपत्रे सूच्यते।