OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 12, 2022

 अमेरिक्काराष्ट्रस्य ब्लाक् होक् उदग्रयाने तालिबानस्य परिशीलनम्। उदग्रयानं भग्नम्। त्रयः यात्रिकाः मारिताः।

    काबूल्>  अमेरिक्कासेनायाः स्वाधीने वर्तमानं तालिबालेन संगृहितम् उदग्रयानं परिशीलनडयनावसरे भग्नम्। सेप्तंबर् मासस्य दशमे दिने एव दुर्घटनेयं जाता। अपघातस्य चलनचित्रखण्डः सामाजिकमाध्यमेषु प्रसरन् अस्ति। दुर्घटनायाम् अस्यां त्रयः यात्रिकाः मृताः इति प्रतिवेदनमस्ति। ३० मिल्यन् डोलर् मूल्ययुक्तम् उदग्रयानं डाययितुं तालिबानस्य अङ्गस्य परिश्रमः, नियन्त्रणं विना उदग्रयानस्य भञ्जनम्, अधः पतनम् इत्यादयः चलनचित्रखण्डे द्रष्टुं शक्यते। काबूलस्य सैनिकविमानपत्तनात् संगृहीतं दृश्यमिति एन् डि टि वि माध्यमस्य प्रतिवेदनमस्ति।