OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, September 8, 2022

 केरलेषु श्रावणोत्सवलहरी। 

कोच्ची> निप्पा-प्रलय-कोविड्महासङ्कटानामन्ते त्रिचतुरवर्षाणामनन्तरं केरलीयाः सर्वे स्वकीयदेशीयोत्सवलहर्याम् आमग्नाः वर्तन्ते। तीव्रवृष्टेः आशङ्कामतिजीव्य केरलीयाः ऐकमत्यस्य साहोदर्यस्य सौहार्दस्य समत्वस्य च उत्सवम् आघोषयन्ति। 

  "माबलिशासनकाले देशे मानवास्सर्वे समाना एव" इति प्रथां स्मरन्तः केरलीयाः प्रतिवर्षं श्रावणमासे श्रावणनक्षत्रे इममुत्सवं समाघोषयन्ति। महाबलिः प्रतिवर्षम् अस्मिन् दिने स्वप्रजाः द्रष्टुं केरलानागच्छतीति ऐतिह्यमस्ति। 

  सप्ताहपर्यन्तमनुवर्तमानाः उत्सवकार्यक्रमाः मुख्यमन्त्रिणा पिणरायि विजयेन रविवासरे उद्घाटिताः। राष्ट्रपतिः, प्रधानमन्त्री, राज्यपालः इत्यादयः सर्वेभ्यः केरलीयेभ्यः 'ओणाशंसान्' प्रकाशितवन्तः।