OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 4, 2023

 मणिपुरसंघर्षः - आवेदनपत्रं समर्पयितुं सर्वोच्चन्यायालयस्य आदेशः। 

नवदिल्ली> सामुदायिकसंघर्षेण कलुषितस्य मणिपुरराज्यस्य इदानीन्तनावस्थामधिकृत्य आवेदनं समर्पयितुं राज्यप्रशासनं प्रति सर्वोच्चन्यायालयः निरदिशत्। अवस्था अत्यधिका शोचनीया इति याचिकाकारेण 'मणिपुरं ट्रैबल् फोरं' नामकेन तथा नास्तीति प्रशासनेन च कृतस्य न्यायवादस्य आधारेणायं निर्देशः। 

  राज्यस्य वर्तमानकालीनावस्थामधिकृत्य सुव्यक्तम् आवेदनमेव समर्पणीयम्। तस्मिन् राज्यस्य आभ्यन्तरशान्तिस्थितिः, संघर्षबाधितप्रदेशस्थानां जनानां पुनरधिवासाय स्वीकृताः प्रक्रमाः, कलहकारिणां निरायुधीकरणाय स्वीकृताः क्रियाविधयः इत्यादयः सुव्यक्ततया सूचनीयाः इति मुख्यन्यायाधिपस्य डि वै चन्द्रचूडस्य  अध्यक्षतयायां रूपीकृतः त्र्यङ्गनीतिपीठः निरदिशत्।