OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 3, 2023

 काश्मीरे भादेर्वदेशः अपूर्ववनपुष्पैः समृद्धः। नयनसुभगम् अपूर्वं दृश्यम् आस्वदितुं सञ्चारिणां प्रवाहः।

  जम्मूकाश्मीरे दर्शकान् हठात् आकर्षन्ति विलसन्ति 'फोक्स्ग्लोव्' नाम कुसुमितानि पुष्पाणि। भादेर्वेषु दोड जिल्लायाः अधित्यकायामेव अपूर्वाणि वनपुष्पाणि कुसुमितानि। 'डिजिट्टलिस् पर्युरिया' अथवा 'फोक्स्ग्लोव् ' नाम्ना विख्यातं कुसुममिदं कदलीकुटुम्बे (औषधि विभागे ) अन्तर्भवति। घण्डाकारवत् भवति पुष्याणां स्वरूपम् ।पुष्पाणामेतेषां वर्णौ पाटलौ श्वेतौ च भवतः। यूरोप् राष्ट्रे साधारणतया दृश्यमानानि एतानि पुष्पाणि काश्मीरेषु कुसुमिते अवसरे अस्मिन्, मनोहरदृश्यमिदं नेत्रैः पानं कर्तुं सन्दर्शकाः प्रवहन्ति।