OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 14, 2023

 नरेन्द्रमोदी फ्रान्स् राष्ट्रं प्राप्तवान्; 'रफाल्' सन्धिघोषणम् अद्य। 

प्रधानमन्त्रिणे नरेन्द्रमोदिने फ्रान्सस्य प्राधानमन्त्रिणः एलिबत् बोणस्य नेतृत्वे दत्तः स्वीकारः।

पारीस्> भारतस्य प्रधानमन्त्री नरेन्द्रमोदी दिनद्वयात्मकसन्दर्शनाय गुरुवासरे फ्रान्स् राष्ट्रं प्राप्तवान्। पारीसे अन्ताराष्ट्रविमाननिलयं प्राप्तं मोदिनं फ्रञ्च् प्रधानमन्त्रिणः एलिसबत् बोण् इत्यस्याः नेतृत्वे हार्दिकं स्वीकरणं विधत्तम्। 

   विविधमण्डलेषु उभयोः राष्ट्रयोः सहयोगं सम्पुष्टीकर्तुं सन्दर्शनेनानेन शक्ष्यते इति मोदिवर्यः ट्विटर् द्वारा स्वप्रतीक्षां प्रकाशितवान्। फ्रान्सतः भारतीयनौसेनायै २६ रफाल् विमानानि 'स्कार्पीन्' जलमग्नमहानौकाश्च क्रेतुं सन्धिपत्रं हस्ताक्षरीकरिष्यते। भारतस्य स्वकीये ऐ एन् एस् विक्रान्तनामके विन्यस्तुमेव रफालविमानानि क्रीणाति।