OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 7, 2023

 चन्द्रयानं - ३ विक्षेपः १४ तमे दिनाङ्के। 


बङ्गलुरु> राष्ट्रेण आकाङ्क्षया प्रतीक्ष्यमाणः चन्द्रयानं तृतीयस्य विक्षेपः जूलाय् मासस्य १४ तमे दिनाङ्के भविष्यति इति 'ऐ एस् आर् ओ' संस्थाध्यक्षः एस् सोमनाथः अवदत्। मध्याह्नानन्तरं २. ३५ वादने श्रीहरिक्कोट्टा प्रदेशस्थात् सतीश् धवान् बहिराकाशकेन्द्रात् एल् वि एम् - ३ इति विक्षेपणवाहनं चन्द्रयानपेटकं भ्रमणपथं प्रापयिष्यति। 

  आगस्तमासस्य २३ तमे दिनाङ्के चन्द्रोपरितले 'मृदु अवतारणं' [Soft landing] कारयितुमेव लक्ष्यम्। निश्चिते दिने विक्षेपः न कृतः चेत् तदर्थं १९ दिनाङ्कपर्यन्तं समयः अस्तीति सोमनाथेन निगदितम्। 

  निश्चितस्थाने अवतारणं न साध्यं चेत् अन्यत्र अवतरणाय क्रमीकरणं चन्द्रयानं - ३ पेटके अस्ति।