OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 15, 2023

 मोदिने फ्रान्सस्य परमोन्नतः पुरस्कारः।

प्रधानमन्त्रिणे नरेन्द्रमोदिने फ्रान्सस्य राष्ट्रपतिः इम्मानुवल् मक्रोणः पुरस्कारं समर्पयति।

पारीस्> भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने फ्रान्सराष्ट्रस्य परमोन्नतः पुरस्कारः 'ग्रान्ड् क्रोस् ओफ् द लीजियन् ओफ् ओणर्' [Grand Cross of the Legion of Honor] नामकः लब्धः। गुरुवासरे एल्सि राजसौधे सम्पन्ने कार्यक्रमे राष्ट्रपतिः इम्मानुवल् मक्रोणः पुरस्कारं मोदिने समर्पितवान्। 

  अनेन पुरस्कारेण बहुमन्यमानः प्रथमः भारतप्रधानमन्त्री भवति नरेन्द्रमोदी। पुरस्कारोSयं भारतस्य १४० कोटिपरिमितेभ्यः जनेभ्यः दीयमाना बहुमतिरिति  मन्यते इति पुरस्कारं स्वीकुर्वन् मोदिवर्येण उक्तम्। भारतेन सह अगाधरूपस्य मैत्रीबन्धस्य प्रतीकः भवत्ययमिति मोदी उक्तवान्।