OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 24, 2023

 यमुनायां जलवितानम् उद्गच्छति; दिल्ली जलोपप्लवभीषायाम्। 

नवदिल्ली> हिमाचलप्रदेशे उत्तरखण्डे च वृष्टिः वर्धिता इत्यतः यमुनानद्याः जलवितानम् उदगच्छत्। राष्ट्रराजधानी पुनरपि जलोपप्लवभीषायां वर्तते। 

  हरियानस्थात् हात्निकुण्डसेतोः अधिकजलं यमुनां नीयते इत्यतः नदीतीरवासिनः जागरूकाः भवेयुरिति केन्द्रगृहमन्त्रिणा अमित शाहवर्येण निर्दिष्टम्। सप्ताहद्वयात् पुर्वं जलोपप्लवभीषया वासस्थानं त्यक्त्वा समाश्वासशिबिराणि प्राप्य गतदिवसेषु ये प्रत्यागतवन्तः ते पुनरपि सङ्कटे निमग्नाः भवन्ति।