OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 15, 2023

 चन्द्रयानविक्षेपणं विजयकरम्। 

चन्द्रयानं - ३ भ्रमणपथे। 

चन्द्रयानं - ३ उद्गच्छति। 

श्रीहरिक्कोट्टा> चन्द्रगोलं साक्षाद्विज्ञातुं भारतस्य तृतीयदौत्याय स्वप्नतुल्यः प्रारम्भः। ऐ एस् आर् ओ संस्थायाः आर् वि एम् - ३ नामकेन विक्षेपणवाहनेन उद्गतं चन्द्रयानपेटकं १६ निमिषैः १७ त्रुट्भिश्च [16 minutes & 17 seconds] १७९ कि मी परिमिताम् उन्नतिं प्राप्तवत् तत्तस्य अल्पकालिकं भ्रमणपथं भवति। ततः चन्द्रं लक्ष्यीकृत्य उद्गम्य आगस्टमासस्य २३ तमे दिनाङ्के सायं ५. ४७ वादने चन्द्रोपरितलं प्रति सुरक्षितेन अवरोहणं करिष्यतीति प्रतीक्षा।  

    श्रीहरिक्कोट्टास्थस्य सतीष् धवान् बहिराकाशविक्षेपण केन्द्रस्य द्वितीयात् विक्षेपस्थानात् ह्यः अपराह्ने २:३५:१७ वादने स्वच्छमाकाशं प्रति  चन्द्रयानं - ३ इत्यस्य विक्षेपः सम्पन्नः। सहस्रशः जनानाम् आह्लादारवानुगमनेन यानं समुद्धारयत्। पेटकस्थे चन्द्रम् अवतीर्यमाणस्य अवरोहकस्य [Lander] उपरितले सञ्चार्यमाणस्य 'परिभ्रमकस्य' [Rover] च नियन्त्रणम् इदानीं चन्द्रयानस्य अंशतया वर्तमाने  चोदनासंविधाने  [Propulsion Module] अस्ति।