OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 17, 2023

 नरेन्द्रमोदिनः यू ए ई सन्दर्शनं समाप्तम्।

भारत - यू ए ई राष्ट्रयोः दिर्ह-रूप्यकाभ्यां क्रयविक्रयसुविधा। 

अबुदाबी> भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः यू ए ई सन्दर्शनस्य उज्वलपरिसमाप्तिः। शनिवासरे प्रभाते ९. १५ [प्रादेशिक]वादने अबुदाबीं सम्प्राप्तं मोदिनं राष्ट्रस्य किरीटाधिकारी  शैख् खालिद् बिन् मुहम्मद् बिन् सायिदः साक्षात् सम्प्राप्य स्वीकृतवान्। तदनन्तरं 'खसर्  अल् वतन्' राजसौधं प्राप्तवते मोदिने राष्ट्रपतिः शैख् मुहम्मद् बिन् सायिद् अल् नह्यानः हृद्यं स्वीकरणं दत्तवान्। ततः उभयोरपि राष्ट्रयोः मध्ये वर्तमानस्य समग्र आर्थिकभागभागित्वसन्धेः [सेपानामकस्य] प्रगतिः चर्चिता। 

  भारते विधास्यमानं जि २० उच्चशिखरसम्मेलनं प्रति यू ए ई प्रधानमंत्रिणं मोदी आमन्त्रयत्। उभयोरपि राष्ट्रयोर्मध्ये विधास्यमानाय वाणिज्यव्यवहाराय रूप्यक - दिर्हाणि परस्परमुपयोक्तुं  सन्धिः हस्ताक्षरीकृतः। सन्धिमनुसृत्य रूप्यक - दिर्हाणां व्यवहारं प्रोत्साहयितुं प्रक्रमाः भविष्यन्ति।