OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 18, 2023

 केरलस्य भूतपूर्वः मुख्यमन्त्री उम्मन् चाण्टी दिनंगतः।

भारते इदंप्रथमतया प्रथमकक्ष्यातः संस्कृताध्ययनाय अनुज्ञा दत्ता । 


बङ्गलुरु> केरलस्य भूतपूर्वः मुख्यमन्त्री तथा कोण्ग्रस् दलस्य वरिष्ठनेता उम्मन् चाण्टी बङ्गलुरु आतुरालये दिवंगतः। अद्य प्रत्युषसि ४. २५ वादने आसीत् तस्य अन्त्यम्। ७९ वयस्कः सः अर्बुदरोगस्य चिकित्सायामासीत्। 

   महान् संस्कृतभाषानुरागी सः यदा २०१२ तमे वर्षे केरलस्य मुख्यमन्त्री आसीत् तदा केरलसंस्कृताध्यापकफेडरेषनस्य तथा संस्कृतभारत्याः केरलविभागस्य विश्वसंस्कृतप्रतिष्ठानं नामकस्य निवेदनं स्वीकृत्य तस्मिन् वर्षे एव केरलस्य विद्यालयेषु प्रथमकक्ष्यातः आरभ्य अपि   संस्कृताध्ययनाय मन्त्रिमण्डलस्य निर्णयः अभवत्। 

  अद्य अपराह्ने उम्मन् चाण्टिवर्यस्य भौतिकशरीरं अनन्तपुरीम् आनयिष्यति। तत्र अन्तिमोपचारसमर्पणाय अवसरः स्यात्। श्वः स्वकीयवासस्थानं कोट्टयं जनपदस्थं पुतुप्पल्लीम् आनेष्यति। अन्त्येष्टिकर्माणि गुरुवासरे पुतुप्पल्लीस्थे देवालये विधास्यन्ति। 

   उम्मन् चाण्टिवर्यस्य  आदरसूचकत्वेन दिनत्रयात्मकस्य राज्यस्तरीयदुःखाचरणं विहितम्। अद्य विद्यालयानां सर्वकारीयकार्यालयानां च विरामदिनं प्रख्यापितम्।