OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 6, 2023

 केरले अतिवृष्टिरनुवर्तते; ६४ दुरिताश्वासशिबिराणि।

जलोपप्लवे आलप्पुष़ जनपदे कृतं रक्षाप्रवर्तनम्। 

५ मरणानि, नैकेषु जनपदेषु जलोपप्लवः, व्यापकविनाशः। 

अद्य ६ जनपदेषु 'ओरञ्ज्' जागरूकता, ११ जनपदस्थेषु  विद्यालयेषु अद्य  निरध्ययनम्। 

कोच्ची> दिनत्रयं यावत् अनुवर्तमानायामतिवृष्ट्यां केरलराज्ये सर्वत्र महान् विनाशः। विविधस्थानेषु पञ्च जनाः जलसञ्चये जलप्रवाहे च पतित्वा  मृताः। 

  वृष्टिदुष्प्रभावेन नैकेषु जनपदेषु निम्नप्रदेशाः निवासाश्च जलनिमग्नाः अभवन्। तत्रत्याः जनाः समाश्वासकेन्द्राणि नीतवन्तः।  आलप्पुष़ा, कोट्टयं, पत्तनंतिट्टा जनपदेषु दुरन्तनिवारणसेनायाः सेवया एव समाश्वासप्रवर्तनानि विधत्तानि। 

  आराज्यं समाश्वासशिबिराणि आरब्धानि। ६४ गृहाणि पूर्णतया विशीर्णानि। आहत्य ११५४ जनाः इतःपर्यन्तं  समाश्वासकेन्द्राणि प्राप्तानीति प्रशासनेन निगदितम्। 

  तृश्शूर जनपदस्थे चालक्कुटिप्रदेशे गतदिने सञ्जाते महति चक्रवाते व्यापकरीत्या कष्टनष्टानि जातानि। वृक्षाणाम्  उन्मूलनाशनेन प्रदेशे सर्वत्र विद्युत् स्थगिता,गृहाणि भग्नानि, गमनागमनसुविधा क्लेशतरा बभूव च। 

  शुक्रवासरपर्यन्तम् आराज्यं अतितीव्रवृष्टिः पर्यावरणविभागेन सूचितम्। अद्य ११ जनपदस्थेषु विद्यालयेषु निरध्ययनं प्रख्यापितम्। इटुक्की, कण्णूर् जनपदेषु रक्तजागरणं, ६ जनपदेषु ओरञ्ज् जागरणं अन्येषु पीतजागरणं च उद्घोषितम्।