OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 27, 2023

 'जि - २०' शिखरसम्मेलनस्य मुख्यवेदिका - भारतमण्डपम् - उद्घाटिता। 

 'ड्रोण्'यन्त्रं डायित्वा भारतमण्डपस्य उद्घाटनं प्रधानमन्त्री निर्वहति।  

नवदिल्ली> सेप्तम्बरमासे प्रचाल्यमानस्य 'जि - २०' शिखरसम्मेलनस्य प्रधानवेदिका भारतमण्डपनामिका प्रगति क्रीडाङ्कणे प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटिता। शिखरसम्मेलनस्य सभाकेन्द्राय भारतमण्डपमिति नाम कर्तुं कर्णाटकस्य आत्मीयाचार्यस्य बसवेश्वरस्य 'आध्यात्मिकसंसद्' इत्याशयः प्रेरणाभूतोSभवदिति प्रधानमन्त्री अवोचत्। 

  २०२४ तमवर्षस्य सामान्यनिर्वाचनानन्तरं भारतं विश्वे तृतीयः आर्थिकशक्तिः भविष्यतीति प्रत्याशा प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रकाशिता। भारतमिदानीं पञ्चमस्थाने वर्तते इति मोदिना सूचितम्।