OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 13, 2023

 विश्वसाहित्यकारः मिलान् कुन्देरः दिवंगतः। 

पारीस्> चेक् स्लोवाकिया वंशजः, आगोलप्रशस्तः साहित्यकारः मिलान् कुन्देरः [९४] पारीसे दिवंगतः। प्रशासनस्य दुष्कर्माणि अधिकारनृशंसतां च विरुध्य तूलिकया वाचा च निरन्तरकलहं प्रख्यापितवानासीत् कुन्देरः। 

  १९२९ तमे वर्षे चेक् स्लोवाकिया राष्ट्रे बर्णोनगरे लब्धजन्मा कुन्देरः जन्मदेशे तस्य  पौरत्वं निषिद्धमित्यतः फ्रान्स् देशं प्रति पलायितः। तत्र 'रेन्नस्' विश्वविद्यालये उपप्राचार्यरूपेण [Assistant Professor] रूपेण चत्वारिवर्षाणि यावत् कर्म कृतवान्। १९७९ तमे चेक् नागरिकत्वं निरस्तमित्यतः १९८१ तमे फ्रञ्चनागरिकत्वं पत्न्या सह स्वीकृतवान्। 

  १९६७ तमे प्रकाशिता 'दि जोक्' नामिका तस्य प्रथमा आख्यायिका भवति। १९७३ तमे 'लैफ् ईस् एवरिवेर्' [Life is Every where] नामिकया  आख्यायिकया सः विश्वप्रसिद्धः अभवत्। 

  ४० संवत्सराणां प्रवासजीवनस्यानन्तरं २०१९ तमे चेक् नागरिकत्वं तस्मै प्रतिलब्धम्। २०२० तमे चेक् राष्ट्रस्य परमोन्नतसाहित्यपुरस्कारेण 'फ्रान्स् काफ्क' नामकेन बहुमानितःच।