OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, July 23, 2023

 महाराष्ट्रे अतिवृष्टिः; भूविच्छेदः - २१ मरणानि। 

नविमुम्बई> महाराष्ट्रस्य राय् गढप्रदेशस्थे इर्शालवाडी वनवासिग्रामे बुधवासरस्य अर्धरात्रौ दुरापन्ने भूविच्छेदे २१ जनाः मृताः। प्रदेशे अतिवृष्टिः अनुवर्तते। मृतानां संख्या अधिका भवेदिति सूच्यते। शताधिकाः मृदन्तर्भागे लग्नाः इति सन्दिह्यते। 

  ९३ जनाः सुरक्षितस्थानं नीताः। राष्ट्रियदुरन्तनिवारणसेनायाः चत्वारः संघाः, राय् गढस्य आरक्षकसेना, अग्निरक्षासेना  इत्यादीनां नेतृत्वे रक्षाप्रवर्तनानि अनुवर्तन्ते।