केरलम्।
एस् एस् एल् सी, +२ परीक्षा उद्घोषिता।
SSLC मार्च 1, +2 मार्च 2.
अनन्तपुरी> केरले अस्याध्ययनवर्षस्य अध्ययनकार्यक्रमाः जनुवरिमासे समाप्स्यते। फेब्रुवरी, मार्च मासद्वयं परीक्षाभ्यः विनियोक्तुं सामाजिक शिक्षाविभीगेन निर्णीतम्।
SSLC [दशमकक्ष्याा]परीक्षाः मार्च् प्रथमदिनाङ्के आरप्स्यन्ते। +2 परीक्षाः द्वितीयदिनाङ्कतः च।
उच्चतरछात्राणां प्रायोगिकपरीक्षाः जनवरी २५ तः आरप्स्यन्ते। १०, १२ कक्ष्ययोः मातृकापरीक्षाः फेब्रुवरि द्वितीयसप्ताहे विधास्यन्ते।