OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 21, 2026

 सकारात्मकशक्त्यैव शैक्षिकवातावरणस्य निर्माणम् - "डा. शैलपुत्री" 

वार्ताहर:- कुलदीपमैन्दोला 

     श्रीनगरस्थे हेमवतीनन्दनबहुगुणागढवालविश्वविद्यालयस्य सीनेटसभागारे १८ सितम्बर २०२६ तमे दिने छात्रपरामर्शसमितेः तथा नवनिर्वाचितछात्रसङ्घपदाधिकरिणां प्रतिनिधीनां च मध्ये संवादात्मकगोष्ठ्या: आयोजनम् अभवत्। अस्याः संगोष्ठ्याः मुख्योद्देश्यः नवनिर्वाचितप्रतिनिधीनां स्वागतं, तेषां विचाराणां प्राधान्यानां च श्रवणं तथा विश्वविद्यालयस्य शैक्षिकवातावरणे, छात्रकल्याणे, आधारभूतसौविध्येसु विद्यार्थिसम्बद्धसमस्यासु च विमर्शः आसीत्।

 केरले अप्रतीक्षितः वृष्टिदुष्प्रभावः।

षट् मरणानि, चत्वारः अदृष्टाः। 

मलप्पुरं जनपदे दुरापन्नः आकस्मिकप्रलयः, प्रलये लग्नः युवक च।

कोच्ची> केरले मासैकानन्तरं दुरापन्ने वृष्टिदुष्प्रभावे त्रिषु प्रदेशेषु षट् जनाः मृत्युमुपगताः। अप्रतीक्षतया प्रवृष्टे वर्षे जलप्रवाहे निपत्य, मृत्स्खलने च दुरन्तः अभवत्। 

  मलप्पुरं जनपदे टि के कोलनी स्थाने कोट्टप्पुष़ा नद्यां रविवासरे सायम् आकस्मिकेन जाते जलप्रपाते निपत्य द्वौ मृतौ। चत्वारः तिरोभूताः।  जलोत्पाते अभिज्ञाते प्रदेशवासिभिः वनविभागोद्योगस्थैः च कृते व्यवधाने बहवः जनाः रक्षां प्राप्ताः। 

  ह्यः सार्धचतुर्वादने इटुक्की जनपदे मून्नार् प्रदेशे केदारस्थस्य पटगृहस्य उपरि मत्खण्डं पतित्वा द्वौ मृतौ। अस्मिन्नेव जनरपदे ईराट्टुपेट्टा-वागमण् वीथ्यां केदारस्य संरक्षणभित्तिका वीथीं निपत्य द्विचक्रिकायां सञ्चरन्ती चेन्नै निवासिनी मृता। 

  कोट्टयं जनपदे पूञ्ञार् प्रदेशे गृहस्य उपरि मृत्स्खलनेन वयोSधिकः मृतः। मृदन्तर्गतौ द्वौ आतुरालयं प्रवेशितौ च।

 रष्यां विरुध्य युक्रेनस्य महाड्रोण् आक्रमणम्। 

६ मरणानि, २० जनाः क्षताः। 

मोस्को>  रष्यायाः राजधानीं मोस्को नगरं लक्ष्यीकृत्य युक्रेनस्य महत् ड्रोण् आक्रमणमभवत्। आक्रमणे न्यूनातिन्यूनं षट् जनाः मृताः, २० जनाः व्रणिताः जाताः इति अन्ताराष्ट्रियवार्तामाध्यमैः वृत्तान्तीकृतम्। मोस्कोनगरस्था प्रमुखा तैलशुद्धीकरणशाला अपि आक्रमणे दुष्टाः जाताः। 

  प्रत्युत, १६०० तः अधिकानि ड्रोणानि स्वस्य प्रतिरोधसंविधानम् उपयुज्य विनाशितानीति रष्यया निगदितम्। तेषु ४५० ड्रोणानि मोस्कोनगरं लक्ष्यीकृत्य आसन्निति मेजर् पदीयः सेर्जी सोबियानिन् इत्येषः अवोचत्। भग्नं ड्रोणं पतित्वा २१ स्तरीयं भवनम् अग्निबद्धं जातम्। किन्तु  तत्पूर्वं ४०० जनाः तत्स्थानात्  संरक्षिताः।


   

 एष्यन् गयिंस् ।

भुषुण्डिप्रयोगे भारताय रजतद्वयम्।

भुषुण्डिप्रयोगे रजतं प्राप्त वा ने भारतगणः। 

महिलाक्रिकटे भारतम् अन्तिमस्पर्धायाम्।

नगोया> एष्यन् कायिकक्रीडायां '१० मीटर् एयर् रैफिल्' विभागे भारतगणः रजतपदकं स्वायत्तीचकार। केरलीया विदर्शा के विनोदः, तमिलनाटप्रान्तीया इलवेनिल् वालरिवन्, महाराष्ट्रीया सोनम् उत्तं मस्कर्  इत्येताः आसन् भारतगणे। अस्मिन् प्रतिद्वन्द्वे सुवर्णं चीनेन प्राप्तम्।

  '१० मीटर् एयर् रैफिल्' वैयक्तिकविभागे इलवेनिल् वालरिवन् रजतपदकं प्राप्तवती। अनेन ह्यः भारतस्य प्राप्तिः द्वे रजते अभवताम्। 

  महिलानां टि-२० क्रिकट् स्पर्धायाः पूर्वान्त्यस्पर्धायां बंगलादेशं विरुध्य ११४ धावनाङ्कानां विजयेन भारतम् अन्त्यस्पर्धां प्राविशत्। षेफाली वर्मा भारताय शतकं प्राप्तवती  - ४९ कन्दुकैः १००। अन्तिमप्रतिद्वन्द्वे श्रीलङ्का अस्ति भारतस्य प्रतियोगी।

Sunday, September 20, 2026

 एष्यन् गयिंस् क्रीडाभ्यः वर्णाभः प्रारम्भः। 

प्रौढोज्वलः उद्घाटनसमारोहः।

पथसंचलने भारतसंघ। 

नगोया> जापनीयहृदयनगरे नगोयाख्ये प्रेमस्य मुद्राभिः एशीयजनततिं जापानं हृदयपूर्वं स्वागतीचकार। प्रौद्योगिकी-कला-रुचिवैविध्य-विनोद-सांस्कृतिकपारम्पर्याणां च समञ्जससम्मेलनेन प्रस्तुतानां कलाकार्यक्रमाणाम् अनुगमनेन २० तमं एष्यन् गयिंस् कायिकोत्सवः प्रौढगम्भीरेण समारब्धः। 

  प्रौढ्या भारतसंघः पथसंचलने भागमकरोत्। भारतस्य षूट्टिंग् क्रीडकः मनु भाकरः, कबडि तारं पवन सेहरावतश्च पताकां वहतः स्म। 

  जापानस्य चक्रवर्ती नारुहितो क्रीडामहोत्सवः उद्घाट्तः इति उद्घोषणं कृतवान्। राजपरिवारसदस्याः साक्षिणः आसन्। रविवासरादारभ्य पदकसम्पादनमारभ्यते। ३१ सुवर्णपदकेषु रविवासरे निश्चयो भविष्यति।

Saturday, September 19, 2026

 दिल्ल्यां पुनरपि संघटितबलात्कारः।

१६ वयस्कां जघान; मृतशरीरं शुनकैः खादितम्।

नवदील्ली> राष्ट्रराजधानीनगरसमीपस्थे प्रदेशे १६ वयस्का बालिका संघटितबलात्काराधीना भूत्वा हता विजनस्थाने परित्यक्ता। अधिगतं मृतशरीरं शुनकैः भुक्तावस्थायमासीत्। घटनायां चत्वारः अपराधिनः आरक्षकैः निगृहीताः। एषु त्रयः अपक्ववयस्काः भवन्ति। 

  बाह्यदिल्ल्यां स्वरूपनगरे सेप्तम्बर दशमदिनाङ्के आसीदियं दारुणघटना। अपराधिषु अन्यतमः बालिकायाः सखा इति सूच्यते। तं द्रष्टुं गृहात्  प्रस्थितां बालिकां एषः सुहृत् तस्य अन्यानि मित्राणि चाहूय केनचित् पण्यवाहनेन विजनप्रदेशं प्रापयित्वा मद्यपानं कृत्वा संघटितबलात्कारं चक्रुः। 

  ततः बालिकां कुट्टनेन मारयित्वा मृतशरीरमुपेक्ष्य ते प्रस्थिताः। १३ तमे दिनाङ्के शुनकैः खाद्यमानं मृतशरीरं दृष्ट्वा प्रदेशवासिनः पुलीसदलं न्यवेदयन्। अन्वेषणे चत्वारः निगृहीताः। १९ वयस्कः शिवं नामकः एव अपराधिषु पक्ववयस्कः।

 एष्यन् गयिंस् - अद्य उद्घाटनम्।

उद्घाटनवेदी पलोमा मिसुहो क्रीडाङ्कणम्। 

नगोया> एशिया भूखण्डस्य बृहत्तमः कायिकोत्सवः - एष्यन् गयिंस् - शनिवासरे सार्धद्विवादने [भारतीयसमयः] जापानस्थे नगोयानगरे उद्घाट्यते। एष्यन् गयिंस् कायिकोत्सवस्य २० तमं संस्करणमेव अत्र सम्पद्यते। जापानराष्ट्रस्य  चक्रवर्ती नारुहितो उद्घाटनं करिष्यति। चक्रवर्तिनी मसाको, राजकुमारः अकिषिनो, राजकुमारी किको इत्येते राजपरिवारसदस्याः अपि कार्यक्रमे भागं करिष्यन्ति।

  नगोया नामके महानौकाश्रयनगरस्थे 'पलोमा मिसुहो' इति अत्लटिक् क्रीडाङ्कणे अस्ति उद्घाटनकार्यक्रमाः। जापानस्य चरित्र-कला-सांस्कृतिकपारम्पर्यम् अभिव्यक्तमानाः भविष्यन्ति कार्यक्रमाः। 

  तृतीयवारमस्ति एशियायाः  कायिकोत्सवे जापानदेशस्य आतिथ्यम्। जापानीयपारम्पर्ये पौराणिकजीविषु अन्यतमः , जापानीयवास्तुशास्त्रे संरक्षणस्य प्रतीकरूपेण मन्यमानः 'षचिहोको' इत्यस्मात् प्रचोदितः 'होनोहोनः' [Honohon] भवति कायिकोत्सवस्य भाग्यचिह्नम्। ऊर्जोत्साहस्पर्धावीर्याणां द्योदकं भवति।

 अल् ख्वायिदा सम्बन्धः

यू पि प्रान्तीयः कोयम्पुत्तूरे निगृहीतः।

कोयम्पुत्तूर्> अल् ख्वायिदा नामकेन भीकरवादसंघटनेन सम्बन्धमारोप्य उत्तरप्रदेशीयः १९ वयस्कः तमिलनाटे कोयम्पुत्तूरे निगृहीतः।  सित्तारनगरजनपदनिवासी मक्सूद अलिनामकः एव उत्तरप्रदेशस्य भीकरवादविरुद्धसेना कोयम्पुत्तूर् आरक्षकसेनायाः साहाय्येन निगृहीतः। 

  सामाजिकमाध्यमैः प्रचरणं कृत्वा जनान् तीव्रवादसंघटनं योजयित्वा राष्ट्रविरुद्धप्रवर्तनाय परिशीलनं च करोति मक्सूदः इति आरक्षकाधिकारिणा उक्तम्। कतिपयकालेन एषः यू पि आरक्षकसेनायाः निरीक्षणे आसीत्।

Friday, September 18, 2026

 भारत-अफ्गानिस्थान टि-२० परम्परायां भारतस्य सम्पूर्णविजयः। 

तृतीयस्पर्धायां भारतस्य १२७ धावनाङ्कानां विजयः। 

योगासनेन अभिषेकशर्मणः  शतकविजयाह्लादः। 

नवदिल्ली> ताडनोद्घाटकस्य  अभिषेक शर्मणः शतकयुक्ते  अत्युज्वलताडनपाटवे तृतीयस्पर्धायामपि भारतस्य विजयः। अनेन अफ्गानिस्थानं विरुध्य टि-२० क्रिकट् परम्परायां भारतस्य ३-० क्रमेण सम्पूर्णविजयः। 

  प्रथमं कन्दुकताडनं कृतवता भारतगणेन २० क्षेपणचक्रेषु सप्त ताडकानां विनष्टे २२१ धावनाङ्काः प्राप्ताः। तत्र  ३० कन्दुकैः शतकं प्राप्य परं ४ कन्दुकानपि अभिमुखीकृत्य आहत्य १०८ धावनाङ्कान् सम्पाद्य बहिर्गतस्य अभिषेक शर्मणः क्रीडा विशिष्टा वर्तते। केरलीयः सञ्जू सांसणः ५० धावनाङ्कान् सम्प्राप्तवान्। प्रत्युत्तरक्रीडायाम् अफ्गानिस्थानं ९४ धावनाङ्कान् सम्पाद्य सर्वे बहिर्नीताः।

 हूतयः मक्कानगरम् आक्रमणलक्ष्यमकरोत् - सौदी।

निषिध्य हूतयः।

रियादः> इस्लामधर्मविश्वासिनां विशुद्धनगरं मक्कां प्रति यमनस्थाः हूतयः ड्रोणाक्रमणाय प्रयतितवन्त इति सौदी अरेबियया आरोपितम्। मंगलवासरे सायं दक्षिणतः आगतं ड्रोणायुधं मक्कायाः व्योममण्डलप्रवेशात् पूर्वमेव  प्रतिरोधसंविधानेन भञ्जितमिति सौद्याः नेतृत्वे वर्तमानस्य सख्यबलस्य वक्ता मेजर् जनरल् तुर्की अल् मालिकी न्यगादीत्। 

  किन्तु आरोपणमिदं व्याजमिति हूतिभिः निरस्तम्। मक्कां वा इतराणि इस्लामिकविशुद्धकेन्द्राणि वा न लक्ष्यीकृतानीति तैः निगदितम्।

 आरबसागरे पाकिस्थानस्य नौका भारतीययुद्धनौकया सह संघट्टिता।

नवदिल्ली> अरबसागरे प्रतिदिननिरीक्षणे वर्त्तमानायां भारतीययुद्धनौकायां पाकिस्तानस्य नौसेनानौका संघट्टिता। घटनायामस्यां विदेशकार्यमन्त्रालयेन पाकिस्तानस्य नयतन्त्रज्ञं साद्-अहमदमाहूय प्रतिषेधः प्रकटितः। अन्तर्राष्ट्रियसमुद्रसीमायां सञ्जाता एषा घटना पाकिस्तानस्य नौसेनायाः असावधानतापूर्णं कृत्यं भवति। एतदङ्गीकर्तुं नार्हमिति भारतेन सूचितम्।

Thursday, September 17, 2026

 अनन्तनागाय फाल्के पुरस्कारः। 


नवदिल्ली> भारतीयचलच्चित्रमण्डलस्य विशिष्टयोगदानाय दीयमानः २०२४ तमवर्षस्य दादा साहिब फाल्के पुरस्कारः  कन्नडस्य विख्यातः चलच्चित्राभिनेता अनन्त नागः इत्यस्मै दीयते। अस्मिन् मासे २२ तमदिनाङ्के गुजराते केवाडिया इत्यत्र सम्पत्स्यमाने राष्ट्रिय चलच्चित्रपुरस्कारकार्यक्रमे राष्ट्रपतिः द्रौपदी मुर्मू पुरस्कारं दास्यति। 

  मुम्बैय्यां कोङ्कणी, कन्नडभाषयोः नाटकाभिनयेन चलच्चित्रमण्डलं प्रविष्टवान् अनन्त नागः विभिन्नभाषासु ३००तः अधिकेषु चलच्चित्रेषु अभिनीय स्वप्रतिभां प्रकाशयति स्म। 

  एतत्कालाभ्यन्तरे राजनैतिकक्षेत्रम् अपि प्रविष्टवान् अनन्तनागः कर्णाटकविधानसभायां सदस्यः भूत्वा प्रशासने नगरविकसनमन्त्री आसीत्। २०२५ तमे वर्षे पद्मभूषणपुरस्कारेण समादृतः अभवत्।

 गुरूपदेशेन विधानसभासदस्यः याचकः अभवत्। 

पराग शाहः भिक्षुवेषे। 

मुम्बई> कोटिशः रूप्यकाणाम् आर्थिकसञ्चयाधिकारादिभिः विराजमानः जनप्रतिनिधिः एकस्मिन् दिने भिक्षुकरूपेण वेषं धृत्वा जनमध्यं प्राविशत्।मलिनतरवस्त्रं धृत्वा सुस्मेरवदनः सन्  स 'याचकः' वीथ्यां चचार। किन्तु कोSपि तं न प्रत्यभिजानाति स्म। जनाः तस्मै नाणकानि भोजनं च दत्तवन्तः। प्रमुखः भवननिर्माता, कोटीश्वरः तथा च घाट् कोपरमण्डलस्य भाजपा सदस्यः पराग् शाहः एव सः आधुनिकयाचकः। 

 स्वस्य आत्मीयगुरोः नम्रमुनेः उपदेशानुसारमासीत् भाजपासदस्यस्य एकदिवसीयम् इदं वेषपरिवर्तनम्। जैनधर्मविश्वासप्रकारेण अयं पुण्यमासः इत्यस्मात् जनानां जीवितक्लेशान् सङ्कटान् च अनुभूय विज्ञातुं जनमध्यमवतरतु इत्यासीत् गुरूपदेशः। "जनाः स्वस्मात् महत्वपूर्णाः इति प्रत्यभिज्ञानमभवत्" इति सः प्रत्यभिजानाति। ३३८३ कोटिरूप्यकाणां सम्पन्नः भवत्ययम्!

 गासायां भवनसमुच्चयः विशीर्य २१ मरणानि।

गासानगरं> गासायां बहुस्तरीयं भवनं विशीर्य निपत्य १२ बालकान् अभिव्याप्य २१ जनाः मृत्युवशं गताः। ४५ जनाः क्षताः अभवन्। पूर्वं इस्रयेलस्य आक्रमणे जातः बलक्षयमेव भवनस्य नाशकारणमिति  अधिकृतैरुक्तम्। 

  गासानगरे वर्तमाने षट्स्तरीये भवने शताधिके अभयार्थिनः वसन्तः सन्ति। तत्र एव दुर्घटना दुरापन्ना।

 प्रधानमन्त्रिणः नरेन्द्रमोदिनः पञ्चविंशतिवर्षीयं शासनम्

       नवदेहली> भारतस्य प्रधानमन्त्री नरेन्द्रमोदी जनप्रतिनिधिरूपेण शासनप्रमुखरूपेण च पञ्चविंशति वर्षाणि पूरयति। २००१ तमस्य वर्षस्य अक्टोबर्-मासस्य सप्तमे दिनाङ्के सः गुजरात्-राज्यस्य मुख्यमन्त्रिरूपेण शासन निर्वाहम् आरब्धवान्। ततः परम् २०१४ तमे वर्षे सः भारतस्य प्रधानमन्त्री अभवत्। लोकतन्त्रे एतावन्तं दीर्घं कालम् एकः एव नेता सर्वकारस्य प्रमुखः अस्ति इति विषयः महत्वपूर्णः अस्ति।

      अस्य अवसरस्य कृते देशे सर्वत्र जनसेवायाः विभिन्नाः कार्यक्रमाः आयोज्यन्ते। मुख्यमन्त्रिकाले तेन प्रवर्तिताः योजनाः पश्चात् राष्ट्रियस्तरे अपि प्रसारिताः। जनधनयोजना, स्वच्छभारताभियानम्, सर्वेषामर्थे आवासयोजना इत्यादयः मुख्यकार्याणि राष्ट्रियस्तरे जनानाम् जीवनस्य परिवर्तनम् अकुर्वन्।

     शासकपक्षस्य नेतारः वदन्ति यत् एतेन शासनेन भारतस्य आर्थिकी शक्तिः वर्धिता। २०४७ तमस्य वर्षस्य कृते भारतस्य समग्रस्य विकासस्य दृढः आधारः निर्मितः अस्ति इति ते अभिप्रयन्ति।

     परन्तु विपक्षस्य नेतारः वदन्ति यत् एतावति दीर्घे काले जनानाम् समस्यानाम् निवारणम् अधिकम् आवश्यकम् आसीत्। उद्योगस्य अभावः, वस्तूनाम् मूल्यवर्धनम् च मुख्ये समस्ये स्तः इति ते कथयन्ति। तथापि एकस्मात् राज्यात् आरब्धा विकासस्य यात्रा अद्य सम्पूर्णस्य देशस्य नवीकरणस्य रूपेण दृश्यते। नरेन्द्रमोदिनः एषा शासनयात्रा भारतीयराजनीतेः प्रमुखः अध्यायः वर्तते।

Wednesday, September 16, 2026

 आरबसागरे पाकिस्थानस्य नौका भारतीययुद्धनौकया सह संघट्टिता।
प्रतीकात्मकं चित्रम्

      नवदिल्ली> अरबसागरे प्रतिदिननिरीक्षणे वर्त्तमानायां भारतीययुद्धनौकायां पाकिस्तानस्य नौसेनानौका संघट्टिता। घटनायामस्यां विदेशकार्यमन्त्रालयेन पाकिस्तानस्य नयतन्त्रज्ञं साद्-अहमदमाहूय प्रतिषेधः प्रकटितः। अन्तर्राष्ट्रियसमुद्रसीमायां सञ्जाता एषा घटना पाकिस्तानस्य नौसेनायाः असावधानतापूर्णं कृत्यं भवति। एतदङ्गीकर्तुं नार्हमिति भारतेन सूचितम्।

 'ए. ऐ अस्मान् सर्वान् विनाशयितुं शक्नोति'; गूगल्-डीपमैन्ड्-शोधकर्तुः आपदीयसूचना।

      गूगल्-डीपमैन्ड्-संस्थायाः पूर्वसुरक्षाशोधकर्ता बिलाल्-चुग्ताई पूर्वसूचनां यच्छति यत् कृत्रिमा बुद्धिमत्ता (AI) तीव्रगत्या वर्धमाना मानवजातेः कृते गम्भीरं सङ्कटं जनयितुं शक्नोति। ए ऐ-प्रौद्योगिकी यदा तीव्रगत्या विकसिता भवति, तदा तां नियन्त्रयितुं सुरक्षाव्यवस्थाः मन्दगत्या विकसति इति सः चिन्तां प्रकटयति।  

​     कृत्रिमबुद्धिमत्तायाः (AI) द्रुतगत्या विकासः मानवजातेः अस्तित्वाय एव गम्भीरं भयमुत्पादयितुं शक्नोति इति सूचनां दत्त्वा गूगल्-डीपमैन्ड्-संस्थायाः पूर्वसुरक्षाशोधकर्ता बिलाल-चुग्ताई अग्रे आगतः। ए ऐ-प्रौद्योगिकी यदि अनेनैव वेगेन विकसिता भविष्यति तर्हि मानवजातेः विनाशः भवितुमर्हति, एतादृशीं विपत्तिं निवारयितुम् अस्माकं समीपे समयः अल्पः अस्ति इति सः स्वस्य सामाजिक-माध्यमद्वारा पूर्वसूचनां दत्तवान्।

 भ्रमणपथे तैः बाह्याकाशायुधः विन्यस्तः इति अमेरिकेन अङ्गीकृतम्।

वार्ताहरा - रमा टी के

ए. ऐ निर्मितम्

     भूमेः भ्रमणपथे बाह्याकाशायुधः विन्यस्तः इति अमेरिकेन अङ्गीकृतम्। इदंप्रथमतया एव एतादृशी आक्रमणक्षमता तेषाम् अस्ति इति अमेरिकेन लोकसमक्षम् अङ्गीकृतम्। शत्रूणाम् आक्रमणात् स्वसेनां संरक्षितुम् एतादृशः आयुधः आवश्यकः इति यू. एस्. व्योमसेनायाः कार्यदर्शिना ड्रोय् मेङ्क् इत्यनेन स्पष्टीकृतम्।

      उपग्रहान् आक्रमितुं सक्षमः उपग्रहः रष्येन विक्षिप्तः इति २०२४ तमे संवत्सरे अमेरिकेन उक्तमासीत्। किन्तु रष्येन लोकसमक्षं प्रतिवचनं न दत्तमातीत्। चीनया अपि बाह्याकाश प्रतिरोधक्षमता विकासयन् अस्ति इति प्रतिवेदनमपि अस्ति।

 एष्यन् गयिंस् 

 कायिकताराणां वासाय महानौका!

कोस्टा सेरीना आडम्बरमहानौका। 

नगोया [जापानं]> सहस्रशः यात्रिकैः सह उल्लासयात्रां गच्छन्ती 'कोस्टा सेरीना' नामिका महानौका आगामिषु त्रि सप्ताहेषु नूतने कार्यभारे व्यापृता भविष्यति। २० तम एष्यन् गयिंस् क्रीडायै जापानं प्राप्तानां क्रीडकाणाम् अधिवासाय सज्जा अस्तीयं महानौका। 

  मङ्गलवासरे महानौका नगोया नौकाश्रये कीलबन्धमुपस्थिता। ओक्टोबर् षष्ठदिनाङ्कपर्यन्तमत्र भविष्यति। ४००० कायिकताराणां वाससुविधा महानौकायामस्ति। वाससुविधासज्जीकरणं शीघ्रगत्या प्रचलदस्ति।

 अतिशीघ्ररेल् केरलाय अनिवार्यम् - ई श्रीधरः।

ई श्रीधरः अङ्कमाल्यां वार्ताहरैः सह संवदति। 

अङ्कमाली> अतिशीघ्ररेल् यानाभियोजना केरलाय अनिवार्या इति 'मेट्रोमान्' इत्यभिज्ञातेन ई श्रीधरवर्येण प्रोक्तम्। 'वेन्दे भारत' रेल् याने जनसम्मर्दः अस्य प्रमाणमिति तेनोक्तम्। स्वेन समर्पितायै अभियोजनायै यावच्छीघ्रम् केरलसर्वकारात् अनुज्ञा लप्स्यते इति सः प्रतीक्षां प्रकटितवान् च। अङकमालीनगरे ऐ सी ई सी इन्जिनीयेर्स् [Integrated Civil Engineers' Council] शिखरसम्मेलनस्य उद्घाटनानन्तरं वार्ताहरैः सह भाषमाणः आसीत् ई श्रीधरः। 

  केरले प्रतिदिनं पञ्चलक्षं जनाः दक्षिणोत्तरदिशि यात्रां कुर्वन्ति। तदेव अतिशीघ्ररेल् यानस्य प्राधान्यं द्योतयति। अनन्तपुरीतः होरात्रयेण कण्णूर् प्राप्तुं शक्यते। २३ निस्थानानि सन्ति। ६०,००० कोटि रूप्यकाणां व्ययः प्रतीक्षते। पूर्णतया सौरोर्जे प्रवर्तमाना अभियोजना स्यात्। अनन्तपुरीतः कण्णूर् पर्यन्तं ८०० रूप्यकाणि शीटिकामूल्यं  भविष्यति। पञ्चवर्षाभ्यन्तरे निर्माणं समापयितुं शक्यते। श्रीधरमहोदयः स्वाभियोजनायाः सविशेषताः एवं वर्णितवान्।