कर्णाटके अन्तिमा मतदानावलिः प्रकाशिता।
९९.३२ लक्षं नामानि अपसृतानि।
बङ्गलुरु> कर्णाटकराज्ये तीव्र मतदानावलीपरिष्करणस्य [एस् ऐ आर्] अन्ते अन्तिमा मतदानावलिः प्रकाशिता। ४,५५,००,०११ जनाः आवल्यां विद्यन्ते। एस् ऐ आर् प्रक्रियायाः पूर्वं ५,५४,३२,३१४ मतदानिनः आसन्। ९९,३२,३०३ नामानि आवल्याः तिरस्कृतानि।
किन्तु ये अन्तिमावल्यां नान्तर्भवन्ति, तेषां form-6 प्रकारेण अपेक्षां समर्पयितुं शक्यते इति मुख्यनिर्वाचनाधिकारिणा निगदितम्।