OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 29, 2026

 'अर्णब्' भूतलमस्पृशत् - आन्ध्रे त्रीणि मरणानि।

ओडीषायां च अतिवृष्टिः। १.८ लक्षं जनाः सुरक्षितस्थानं नीताः।

नव दिल्ली> वंगसमुद्रान्तराले जातः न्यूनमर्दः 'अर्णब' नामकचक्रवातेन रूपान्तरं प्राप्य मंगलवासरे रात्रौ  भूतलस्पर्शमकरोत्। आन्ध्रप्रदेशे महानाशमजायत। त्रयः मृताः। उपद्विशतं गृहाणि विशीर्णानि। आन्ध्रे ओडीषायां च १.८ लक्षं जनाः सुरक्षितस्थानं नीताः।  

  झार्खण्डः, छत्तीसगढः, तेलङ्कानं, पुतुच्चेरी, आन्डमान्-निकोबार् प्रदेशेषु दुरन्तनिवारणसेना विन्यस्ता।